सामग्री पर जाएँ

वाचिकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वाचिकम्, त्रि, (वाच् + ठक् ।) वाचा कृतम् । यथा, -- “शरीरजैः कर्म्मदोषैर्याति स्थावरतां नरः । वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥” इति प्रायश्चित्ततत्त्वम् ॥ अपि च । “कायिकं वाचिकञ्चैव मानसं यच्च दुष्कृतम् । एकजप्येन तत् सर्व्वं प्रणश्यति ममाग्रतः ॥” इति शाम्बपुराणे सूर्य्यस्तोत्रम् ॥ अन्यच्च । कायिकं मानसञ्च नमस्कारं हित्वा आचार्य्येण कथं वाचिको नमस्कारः कृतः । इति मुग्धबोधटीकायां दुर्गादासः ॥ (वागेव । वाक् + “वाचो व्याहृतार्थायाम् ।” ५ । ४ । ३५ । इति ठक् । सन्देशोक्तौ, क्ली । इति हारावली । १६६ ॥ यथा, राजतरङ्गिण्याम् । ६ । ३५ । “भृत्यमेकं बणिग्वेश्म प्राहिणोद्दत्तवाचिकम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=वाचिकम्&oldid=164817" इत्यस्माद् प्रतिप्राप्तम्