सामग्री पर जाएँ

वाजम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वाजम्, क्ली, घृतम् । (यथा, वाजसनेयसंहिता- याम् । ९ । १ । “वाचस्पतिर्वाजं नः स्वदतु ॥”) यज्ञः । अन्नम् । (यथा, ऋग्वेदे । ४ । २२ । ३ । “यो देवो देवतमो जायमानो महो वाजेभिर्महद्भिश्च शुष्मैः ॥” “वाजेभिरन्नैः ।” इति तद्भाष्ये सायणः ॥) वारि । इति मेदिनी । जे, १४ ॥ (संग्रामः । यथा, ऋग्वेदे । ५ । ३५ । १ । “अस्मभ्यं चर्षणीसहं सस्निं वाजेषु दुष्टरम् ॥” बलम् । यथा, तत्रैव । ५ । ८५ । २ । “वनेषु व्यन्तरिक्षं ततान वाजमर्व्वत्सु पय उस्रियासु ॥”)

"https://sa.wiktionary.org/w/index.php?title=वाजम्&oldid=164831" इत्यस्माद् प्रतिप्राप्तम्