सामग्री पर जाएँ

वाजीकरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वाजीकरणम्, क्ली, (अवाजी वाजीव क्रियतेऽनं- नेति । कृ + ल्युट् । अभूततद्भावे च्विः ।) वीर्य्य- वृद्धिकरम् । इति राजनिर्घण्टः ॥ वाजी- करणद्रव्यस्य लक्षणमाह । “यद्द्रव्यं पुरुषं कुर्य्यात् वाजिवत् सुरतक्षमम् तद्वाजीकरमाख्यातं मुनिभिर्भिषजां वरैः ॥” अत्र प्रसङ्गात् क्लैवस्य लक्षणं संख्या निदान- ञ्चाह । “क्लीवः स्यात् सुरताशक्तस्तद्भावः क्लैव्यमुच्यते । तच्च सप्तविधं प्रोक्तं निदानं तस्य कथ्यते एषां प्रयोगाद्भक्ष्याणां स्तब्धेनापूर्णरेतसा ॥ शेफसा वाजिवद्याति यावदिच्छन् स्त्रियो नरः ॥” इति वृष्यपूपालिकयोगः ॥ * ॥ “मण्डलैर्जातरूपस्य तस्या एव पयःशृतम् । अपत्यजननं सिद्धं सघृतक्षौद्रशर्करम् ॥” “आर्द्राणि मत्स्यमांसानि भृष्टाश्च शफरीश्च वा । तप्ते सर्पिषि यः खादेत् स गच्छेत् स्त्रीषु न क्षयम् ॥ घृतभृष्टान् रसे छागे रोहितान् फलसाधिते ॥ अनुपीतरसान् सिद्धानपत्यार्थी प्रयोजयेत् ॥” इति गर्भाधानकरो योगः ॥ * ॥ “नर्त्ते वै षोडषाद्वर्षात् सप्तत्याः परतो नच । आयुष्कामो नरः स्त्रीभिः संयोगं कर्त्तुमर्हति ॥ अतिबालो ह्यसम्पूर्णसर्व्वधातुः स्त्रियो व्रजन् । उपतप्येत सहसा तडागमिव काजलम् ॥ शुष्करुक्षं यथाकाष्ठं जन्तुदग्धं विजर्ज्जरम् । स्पृष्टमाशु विशीर्य्येत तथा वृद्धस्त्रियो व्रजन् ॥ जरया चिन्तया शुक्रं व्याधिभिः कर्म्मकर्षणात् । क्षयं गच्छत्यनशनात् स्त्रीणाञ्चातिनिषेवणात् ॥ क्षयाद्भयादतिस्रम्भाच्छोकात् स्त्रीदोषदर्शनात् । नारीणामरसज्ञत्वादभिचारादसेवनात् ॥ तृप्तस्यापि स्त्रियो गन्तुं न शक्तिरुपजायते । देहसत्त्वबलापेक्षी हर्षः शक्तिश्च हर्षजा ॥” इति चरके चिकित्सितस्थाने द्वितीयेऽध्याये ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वाजीकरण¦ न॰ अवाजी वाजीव क्रियतेऽनेन वाजिन् + च्विकृ--ल्युट्।
“यद्द्रव्यं पुरुषं कुर्य्यात् वाजिवत् सुरत-क्षमम्। तद्वाजीकरणं ख्यातम्” इत्युक्ते वीर्य्यवृद्धि-करणे औषधभेदे। सुश्रुते दृश्यम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वाजीकरण¦ n. (-णं) Stimulus or excitement of amorous desires by aphrodisiacs, &c. E. वाजि a horse, करण making, and च्वि augment.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वाजीकरणम् [vājīkaraṇam], Stimulating or exciting desire by aphrodisiacs; यद् द्रव्यं पुरुषं कुर्याद् वाजिवत्सुरतक्षमम् । तद्वाजीकरणं ख्यातम् Suśr.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वाजीकरण/ वाजी--करण mf( ई)n. =prec. (also n. ) ib. Ka1m. etc.

वाजीकरण/ वाजी--करण mf( ई)n. N. of wk.

"https://sa.wiktionary.org/w/index.php?title=वाजीकरण&oldid=246979" इत्यस्माद् प्रतिप्राप्तम्