सामग्री पर जाएँ

वातकर्म्म

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वातकर्म्म [न्], (वातस्य कर्म्म ।) मरुत्क्रिया । पर्द्दनम् । यथा, -- वराह उवाच । “स्पृश्यमानेन मे भूमे ! वातकर्म्म प्रमुञ्चति । एवं हि पुरुषो युक्तो वातपीडितमानसः ॥ मक्षिका पञ्च वर्षाणि त्रीणि वर्षाणि मूषकः । श्वा चैव त्रीणि वर्षाणि कूर्म्मो वै जायते नव ॥ एषु वै तापनं देवि ! मेहनं मम शंसति । यो वै शास्त्रं विजानाति मम कर्म्मपरायणः ॥ श्रुत्वा वाक्यं भगवतो प्रत्युवाच वसुन्धरा ॥ धरण्युवाच । अतुलं लभते पापं तव कर्म्मपरायणः । तस्य देव सुखार्थाय विशुद्धिं वक्तुमर्हसि ॥ वाराह उवाच । शृणु कार्त्स्न्येन मे देवि ! कथ्यमानं मयानघे । अपराधमिमं कृत्वा सन्तरेद्येन कर्म्मणा ॥ यावकेन दिनत्रीणि नक्तेन च पुनस्त्रयः । कर्म्म चैवं ततः कृत्वा स च मे नापराध्यति ॥ सर्व्वशङ्कां परित्यज्य मम लोकाय गच्छति । एतत्ते कथिथं भद्रे मरुत्कर्म्मापराधिनः ॥ दोषञ्चैव गुणञ्चैव यत्त्वया परिपृच्छितम् ॥” इति वराहपुराणे मरुत्कर्म्मप्रायश्चित्तम् ॥

"https://sa.wiktionary.org/w/index.php?title=वातकर्म्म&oldid=164889" इत्यस्माद् प्रतिप्राप्तम्