वातगुल्म
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वातगुल्मः, पुं, वातुलः । यथा, -- “वातुलो वातगुल्मः स्याच्चारवायुर्निदाघजः । झञ्झानिलः प्रावृषिजो वासन्तो मलयानिलः ॥” इति त्रिकाण्डशेषः ॥ (वातेन जातो गुल्मः ।) रोगविशेषः । (यथा, मार्कण्डेये । ३९ । ५४ । “वातगुल्मप्रशान्त्यर्थमुदावर्त्ते तथोदरे । यवागूं वापि पवनं वायुग्रन्थिं प्रतिक्षिपेत् ॥” अस्य चिकित्सा यथा, -- “वचायवानीत्रिकटुदशमूलीजलं शतम् । क्वाथश्चोष्णो हितः पाने धान्यनागरकोऽथवा ॥ वातगुल्मेषु सर्व्वेषु ज्वरेषु विषमेषु च । रास्नाद्यपञ्चकं वापि वातगुल्मस्य पाचनम् । शठी सौवर्च्चलं शुण्ठी पाचनं वातगुल्मिने ॥” “नागरं क्रिमिजित् पथ्या त्रिवृता त्रिगुणा- युतम् । चूर्णं गुडान्वितं देयं वातगुल्मविरेचनम् ॥ दन्त्याश्च भाग एकस्तु द्वौ भागौ च हरी- तकी । त्रिवृतायास्त्रिभागः स्यात् शुण्ठ्याश्चत्वार एव च । प्रक्षिप्य सर्व्वमेकत्र सर्व्वतुल्यगुडेन तु ॥ वटकं भक्षयेत् प्रातस्तस्योपरि जलं पिबेत् । क्वथितश्च विवेकश्च वातगुल्मोपशान्तये ॥” इति वातगुल्मचिकित्सा ॥ इति हारीते चिकि- त्सितस्थाने चतुर्थेऽध्याये ॥) तस्य निदानादिर्गुल्म- शब्दे द्रष्टव्यः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वातगुल्म¦ पु॰ वातेन गुल्म इव।
१ वातुले त्रिका॰।
२ वात-निमित्ते गुल्मरोगभेदे गुल्मशब्दे
२६
२६ पृ॰ दृश्यम्।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वातगुल्म¦ m. (-ल्मः)
1. A gale, a high wind.
2. Acute gout or rheuma- tism.
3. Any disease arising from the morbid affection of the windy humour, such as, madness, the glandular enlargement of the mesenteric gland, in the abdomen, so as to be perceived ex- ternally, &c. according to our Hindu system of pathology. E. वात wind, गुल्म a cluster, a quantity.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वातगुल्म/ वात--गुल्म m. " -wwind-cluster " , a gale , high wind
वातगुल्म/ वात--गुल्म m. acute gout or rheumatism Ma1rkP. Sus3r.