वातचक्र
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वातचक्र¦ न॰ वृ॰ स॰
२७ अ॰ उक्ते पूर्वादिवातानां कालभेदेनशुभाशुभमूचके वहनभेदे
“पूर्वः पूर्वसमुद्रवीचिशिखरप्रस्फालनाघूर्णितश्चन्द्रार्कांशु-सटाभिघातकलितो वायुर्यदाकाशतः। नैकान्तस्थित-नी{??}मेघपटलां शारद्यसंवर्धितां वासन्तोत्कटसस्वमण्डि-[Page4874-b+ 38] ततलां विद्यात्तदा मेदिनीम्। यदाग्नेयो वायुर्मलय-शिखरास्फालनपटुः प्लवत्यस्मिन्योगे भगवति पतङ्गेप्रवसति। तदा नित्योद्दीप्ता ज्वलनशिखरालिङ्गिततलास्वगात्रोष्मोच्छ्वासैर्वमति वसुधा भस्मनिकरम्। ताली-पत्रलतावितानतरुभिः शाखामृगान्नर्तयन् योगेऽस्मिन्प्लवति ध्वनन्सुपरुषो वायुर्यदा दक्षिणः। सर्वोद्योग-समुन्नताश्च गजवत्तालाङ्कुशैर्घट्टिताः कोनाशा इव म-न्दवारिकणिकान्मुञ्चन्ति मेघास्तदा। सूक्ष्मैलालवलीलव-ङ्गनिचयान् व्याघूर्णयन् सागरे भानोरस्तमये प्लवत्य-विरतो वायुर्यदा नैरृतः। क्षुत्तृष्णामृतमानुषास्थिशकल-प्रस्तारभारच्छदा मत्ता प्रेतबधूरिवोग्रचपला भूमिस्तदालक्ष्यते। यदा रेणूत्पातैः प्रविकटसटाटोपचपलः प्र-वातः पश्चार्धे दिनकरकरापातसमये। तदा सस्योपेताप्रवरनृवराबद्धसमरा धरा स्थाने स्थानेऽप्यविरतवसार्मास-रुधिरा। आषाढीपर्वकाले यदि किरणततेरस्तकालोप-पत्तौ वायव्यो बद्धवेगः प्लवति घनरिपुः पन्नगादानुकारी। जानीयाद्वारिधाराप्रमुदितमुदितां मुक्तमण्डूककण्ठांसस्योद्भासैकचिह्नां सुखबहुलतया भाग्यमेनामिवोर्वीम्। मेरुग्रस्तमरीचिमण्डलतले ग्रीष्मावसाने रवौ वात्यामो-दिकदम्बगन्धसुरभिर्वायुर्यदा चोत्तरः। विद्युद्भ्रान्ति-समस्तकान्तिकलनामत्तास्तदा तोयदा उन्मत्ता इव न-ष्टचन्द्रकिरणां गां पूरयन्त्यम्बुभिः। ऐशानो यदिशीतलोऽमरगणैः संसेव्यमानो भवेत् पुन्नागागुरुपारि-जातसुरभिर्वायुः प्रचण्डध्वनिः। आपूर्णोदकयौवनावसुमती सम्पन्नसस्याकुला धर्मिष्ठाः प्रणतारयो नृप-रयो रक्षन्ति वर्णांस्तदा”।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वातचक्र/ वात--चक्र n. " -wwind-circle " , the circular markings of a compass VarBr2S.
