सामग्री पर जाएँ

वातपित्तजशूल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वातपित्तजशूलम्, क्ली, (वातपित्ताभ्यां जायते इति । जन् + डः । तच्च तत् शूलञ्चेति ।) शूल- रोगविशेषः । तस्य औषधं यथा, -- “मातुलुङ्गस्य निर्यासं गुडाज्येन समन्वितम् । वातपित्तजशूलानि हन्ति वै पानयोगतः ॥” इति गारुडे १८८ अध्यायः ॥ (तथास्यान्या चिकित्सा । यथा, -- “दुरालभा पर्पटकञ्च विश्वा पटोलनिम्बाम्बुदतिन्तिडीकम् । सशर्करं कल्कमिदं प्रयोज्यं सपित्तवातोद्भवशूलशान्त्यै ॥” इति हारीते चिकित्सितस्थानेऽष्टमेऽध्याये ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वातपित्तजशूल/ वात--पित्त---ज-शूल n. a form of the disease called शूलib.

"https://sa.wiktionary.org/w/index.php?title=वातपित्तजशूल&oldid=247627" इत्यस्माद् प्रतिप्राप्तम्