वातरक्तम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वातरक्तम्, क्ली, (वातदूषितं रक्तं यत्र ।) रोग- विशेषः । तस्य विप्रकृष्टं निदानमाह । “लवणाम्लकटुक्षारस्निग्धोष्णाजीर्णभोजनैः । क्लिन्नशुष्काम्बुजानूपमांसपिण्याकमूलकैः ॥ कुलत्थमासनिष्पावशाकादिपललेक्षुभिः । दध्यारनालसौवीरशुक्ततक्रसरासवैः ॥ विरुद्धाध्यशनक्रोधदिवास्वप्नातिजागरैः । प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम् । स्थूलानां सुखिनां चापि प्रकुप्येद्वातशोणितम् ॥ हस्त्यश्वोष्ट्रैर्गच्छतश्चाश्नतश्च विदाह्यन्नं संविदाहाशनस्य ॥ * ॥ क्षारो यवक्षारादिः । अजीर्णभोजनैः अजी- र्णाय भोजनैः । अतिमात्रभोजनैरित्यर्थः । क्लिन्नादीनि मांसस्य विशेषणानि । क्लिन्नं शटि- तम् । शुष्कमातपे शोषितम् । अम्बुजं मत्स्यादि- मांसम् । आनूपं गौडादिपूर्व्वदेशजं मांसम् । पिण्याकं तिलखलिः । मूलकं प्रसिद्धमेव । निष्पावः वोडाशाकम् । शाकं पत्रशाकम् । आदिशब्देन वृन्ताकादीनि फलशाकानि गृह्यन्ते । पललं शटितत्वादिदोषरहितमपि मांसं वात- शोणितं प्रकोपयेत् । शटितादि तु मांसं विशेषतो वातशोणितं प्रकोपयेत् । आरनालं सन्धानभेदः । शुक्तं सन्धानभेदः । सौवीरं सन्धानभेदः । तक्रं चतुर्थांशजलयुक्तं बस्त्रपूतं दधि । सुरा सन्धानभेदः । आसवः सन्धान- भेदः । विरुद्धं क्षीरमत्स्यादि । अध्यशनम् । अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते । अतिजागरो निशि । प्रायशः बाहुल्येन । सुकु- माराणां अल्पतरकायव्यापाराणाम् । अथवा मिथ्याहारविहारिणाम् । अयथाहारविहा- राभ्यां स्थूलानां सुखिनाञ्च रक्तवृद्ध्या । हस्त्य- श्वोष्ट्रैर्गच्छतः यतो वायुर्व्विवर्द्धते रुधिरञ्चाधो गच्छति । हस्त्यादय उपलक्षाणि । पद्भ्या- अथात्र पथ्यापथ्यविधिः । “द्वयोरस्रस्रुतिः सूचीजलौकाशृङ्ग्यलावुभिः । शतधौतघृताभ्यङ्गो मेषीदुग्धावसेचनम् ॥ यवषष्टीकनीवारकलमारुणशालयः । गोधूमाश्चणका मुद्गास्तुवर्य्योऽपि मुकुष्टकाः ॥ अजानां महिषीणाञ्च गवामपि पयांसि च । लावतित्तिरिसर्पद्विट्ताम्रचूडादिविष्किराः ॥ प्रतुदाः शुकदात्यूहकपोतकटकादयः । उपोदिकाकाकमाची वेत्राग्रं सुनिषण्णकम् ॥ वास्तुकं कारवेल्लञ्च तण्डुलीयः प्रसारणी । पत्तूरो वृद्धकुष्माण्डं सर्पिः शम्पाकपल्लवम् ॥ पटोलं रुवुतैलञ्च मृद्वीकाश्वेतशर्करा । नवनीतं सोमवल्ली कस्तूरी सितचन्दनम् ॥ शिंशपागुरुदेवाह्वसरलं स्नेहमर्द्दनम् । तिक्तञ्च पञ्चमुद्दिष्टं वातरक्तगदे नृणाम् ॥ दिवास्वप्नाग्निसन्तापव्यायामातपमैथुनम् । माषाः कुलत्था निष्पावाः कलायाः क्षारसेवनम् ॥ अम्बुजानूपमांसानि विरुद्धानि दधीनि च । इक्षवो मूलकं मद्यं पिण्याकोऽम्लानि काञ्जिकम् ॥ कटुञ्च गुर्व्वभिष्यन्दि लवणानि च शक्तवः । इत्यपथ्यं निगदितं वातरक्तगदे नृणाम् ॥” इति वैद्यकपथ्यापथ्यविधिग्रन्थे वातरक्ताधि- कारः ॥)
