सामग्री पर जाएँ

वातशोणित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वातशोणितम्, क्ली, (वातजं शोणितं दुष्टरक्तं यत्र ।) वातरक्तरोगः । इति भावप्रकाशः ॥ (अस्य सनिदानसम्प्राप्तिकं पूर्व्वरूपं लक्षणञ्च यथा, -- “विदाह्यन्नं विरुद्धञ्च तत्तच्चारुक्प्रदूषणम् । भजतां विधिहीनञ्च स्वप्नजागरमैथुनम् ॥ प्रायेण सुकुमाराणामचंक्रमणशीलिनाम् । अभिघातादशुद्धेश्च नृणामसृजि दूषिते ॥ वातलैः शीतलैर्वायुर्वृद्धः क्रुद्धो विमार्गगः । तादृशेनासृजा रुद्धः प्राक् तदेव प्रदूषयेत् ॥ आढ्यरोगं खुडं वातवलासं वातशोणितम् । तदाहुर्नामभिस्तच्च पूर्ब्बं पादौ प्रधावति ॥ विशेषाद्यानयानाद्यैः प्रलम्बौ तस्य लक्षणम् । भविष्यतः कुष्ठसमं तथा सादः श्लथाङ्गता ॥ जानुजङ्घोरुकट्यंशहस्तपादाङ्गसन्धिषु । कण्डूस्फुरणनिस्तोदभेदगौरवसुप्तताः ॥ भूत्वा भूत्वा प्रणश्यन्ति मुहुराविर्भवन्ति च । पादयोर्मू लमास्थाय कदाचिद्धस्तयोरपि ॥ आखोरिव विषं क्रुद्धं कृत्स्नं देहं विधावति । त्वङ्मांसाश्रयमुत्तानं तत्पूर्व्वं जायते ततः ॥ कालान्तरेण गम्भीरं सर्व्वान् धातूनभिद्रवत् । कण्ड्वादिसंयुतोत्ताने त्वक्ताम्रश्यावलोहिता ॥ सायामा भृशदाहोष्मा गम्भीरेऽधिकपूर्व्वरुक् । श्वयथुर्ग्रथितः पाकी वायुः सन्ध्यस्थिमज्जसु ॥ छिन्दन्निव चरत्यन्तर्वक्रीकुर्व्वंश्च वेगवान् । करोति खञ्जं पङ्गुंवा शरीरे सर्व्वतश्चरन् ॥ वातेऽधिकेऽधिकन्तत्र शूलस्फुरणतोदनम् । शोफस्य रौक्ष्यकृष्णत्वश्यावतावृद्धिहानयः ॥ धमन्यङ्गुलिसन्धीनां सङ्कोचोऽङ्गग्रहोऽतिरुक् । शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः ॥ रक्ते शोफोऽतिरुक्तोदस्ताम्रश्चिमिचिमायते । स्निग्धरुक्षैः शमं नैति कण्डूक्लेदसमन्वितः ॥ पित्ते विदाहः सम्मोहः स्वेदो मूर्च्छामदः स- तृट् । स्पर्शाक्षमत्वं रुग्रागः शोफपाको भृशोष्मता ॥ कफेस्तैमित्यगुरुता सुप्तिस्निग्धत्वशीतताः । कण्डूर्मन्दा च रुग्द्वन्द्वसर्व्वलिङ्गञ्च सङ्करे ॥ एकदोषानुगं साध्यं नवं याप्यं द्विदोषजम् । त्रिदोषजं त्यजेत् स्रावि स्तब्धमर्व्वुदकारि च ॥ रक्तमार्गं निहन्त्याशु शाखासन्धिषु मारुतः । निविश्यान्योऽन्यमाचार्य्य वेदनाभिर्हरत्यसून् ॥” इति वाभटे निदानस्थाने षोडशेऽध्याये ॥ “वातशोणितिनो रक्तं स्निग्धस्य बहुशो हरेत् । अल्पाल्पं पालयन् वायुं यथादोषं यथाबलम् ॥ चिकित्सितं हितं पथ्यं प्रायश्चित्तं भिषग्जितम् । भेषजं शमनं शस्तं पर्य्यायैः स्मृतमौषधम् ॥” इति च वाभटे चिकित्सितस्थाने द्वाविंशतितमे- ऽध्याये ॥ अन्यद्वातरक्तशब्दे ज्ञातव्यम् ॥ * ॥)

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वातशोणित¦ n. (-तं) Acute gout or rheumatism. E. वात wind, शोणित blood; ascribed to a vitiated state of these two. [Page643-a+ 60]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वातशोणित/ वात--शोणित n. diseased state of -wwind and blood Sus3r.

"https://sa.wiktionary.org/w/index.php?title=वातशोणित&oldid=247859" इत्यस्माद् प्रतिप्राप्तम्