वातसहः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वातसहः, त्रि, (वातं वातजनितरोगं सहते । सह + अच् ।) अत्यन्तवायुयुक्तः । यथा, -- “वातासहो वातसहो वातूलो वातुलोऽपि च ।” इति शब्दरत्नावली ॥ (वायुवेगसहनशीलः । यथा, महाभारते । १ । १४२ । ५ ॥ “ततो वातसहां नावं यन्त्रयुक्तां पताकिनीम् । ऊर्म्मिक्षमां दृढां कृत्वा कुन्तीमिदमुवाच च ॥”)
