सामग्री पर जाएँ

वातादः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वातादः, पुं, (वाताय वातनिवृत्तये अद्यते इति । अद् + घञ् ।) फलवृक्षविशेषः । वादाम इति ख्यातः । तत्पर्य्यायः । वातवैरी २ नेत्रोपम- फलः ३ वाताम्रः ४ । अस्य गुणाः । उष्णत्वम् । सुस्निग्धत्वम् । वातघ्नत्वम् । शुक्रकारित्वम् । गुरुत्वञ्च । अस्य मज्जगुणाः । मधुरत्वम् । वृष्यत्वम् । पित्तानिलापहत्वम् । स्निग्धत्वम् । उष्णत्वम् । कफकारित्वम् । रक्तपित्तविकारिणां श्रेष्ठत्वञ्च । इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=वातादः&oldid=164967" इत्यस्माद् प्रतिप्राप्तम्