सामग्री पर जाएँ

वातिकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वातिकः, पुं, (वातादागतः । वात + ठञ् ।) वायुजव्याधिः । यथा, -- “वातिको वातजो व्याधिः पैत्तिकः पित्तसम्भवः । श्लैष्मिकः श्लेष्मसंभूतः समूहः सान्निपातिकः ॥” इति राजनिर्घण्टः ॥ (क्ली, वातस्य शमनं कोपनं वा । “वातपित्त- श्लेष्मभ्यः शमनकोपनयोरुपसंख्यानम् ।” ५ । १ । ३८ । इत्यस्य वार्त्ति० ठञ् ॥ वातिकरोगाक्रान्ते वाचाले, त्रि । यथा, महाभारते । ३ । २५६ । ३ । “अपरे त्वरुवंस्तत्र वातिकास्तं महीपतिम् । युथिष्ठिरस्य यज्ञेन न समो ह्येष ते क्रतुः ॥”)

"https://sa.wiktionary.org/w/index.php?title=वातिकः&oldid=164991" इत्यस्माद् प्रतिप्राप्तम्