वातूलः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वातूलः, पुं, (वातानां समूहः । “वातादूलः ।” ४ । २ । ४२ । इत्यस्य वार्त्तिकोक्त्या ऊलः । यद्बा, वाताः स्वन्त्यस्मिन्निति । वात + “सिध्मादि- भ्यश्च ।” ५ । २ । ९७ । इति लच् । “वातदन्त- बलेति ।” ऊङ् । यद्वा, वातानां समूहः वातं न सहते इति वा । वात + “वातात् समूहे च । वातं न सहते इति च ।” ५ । २ । १२२ । इत्यस्य वार्त्ति० ऊलच् ।) वात्या । वातासहे, त्रि । इत्य- मरः ॥ “वात्या वातसमूहः । अत्र जनखलादि- गोरथवातादिति ऊलः । वातासहो वात- तृणेत्यासहः । वाइया इति ख्यातः । अत्र गो- विकारादिना ऊलः वातूलः । वातेर्नाम्नीति तुले ह्रस्वोकारवानपि वातुलः । वातूलो वातुलोऽपि स्यादिति द्बिरूपकोषः ॥ उन्मत्तेऽपि वातूलः ।” इत्यमरटीकायां भरतः ॥
