सामग्री पर जाएँ

वानप्रस्थः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वानप्रस्थः, पुं, (वनप्रस्थे जातः । अण् ।) मधूक- वृक्षः । (अस्य पर्य्यायो यथा, -- “मधूको गुडपुष्पः स्यान्मधुपुष्पो मधुस्रवः । वानप्रस्थो मधुष्ठीलो जलजेत्रमधूलकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) पलाशवृक्षः । (अस्य पर्य्यायो यथा, -- “वातपोथः पलाशः स्याद्वानप्रस्थश्च किंशुकः । राजादनो ब्रह्मवृक्षो हस्तिकर्णो दलोऽपरः ॥” इति वैद्यकरत्नमालायाम् ॥) तृतीयाश्रमः । इति विश्वमेदिन्यौ ॥ * ॥ पुत्त्र- मुत्पाद्य वनवासं कृत्वा अकृष्टपच्यफलादि भक्ष- यित्वा ईश्वराराधनं करोति यः स वानप्रस्थः । अथर्व्वशिरसोपेतो वेदान्ताभ्यासतत्परः । यमान् सेवेत सततं नियमांश्चाप्यतन्द्रितः ॥ कृष्णाजिनी सोत्तरीयः शुक्लयज्ञोपवीतवान् । अथवाग्नीन् समारोप्य स्वात्मनि ध्यानतत्परः ॥ अनग्निरनिकेतः स्यान्मुनिर्मोक्षपरो भवेत् । तापसेष्वव विप्रेषु यात्रिकं भैक्षमाहरेत् ॥ गृहमेधिषु चान्येषु द्बिजेषु वनवासिषु । ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान् वने वसन् ॥ प्रतिगृह्य पुटेनैव पाणिना सकलेन वा । विविधाश्चोपनिषध आत्मसंसिद्धये जपेत् ॥ विद्याविशेषान् सावित्रीं रुद्राध्यायं तथैव च । महाप्रस्थानिकञ्चासौ कुर्य्यादनशनन्तथा ॥ अग्निप्रवेशमन्यद्बा ब्रह्मार्पणविधौ स्थितः ॥ ये तु सम्यगिममाश्रमं शिव- माश्रयन्त्यशिवपुञ्जनाशनम् । ते विशन्ति पदमैश्वरं परं यान्ति चैव जगतोऽस्य संस्थितिम् ॥” इति कूर्म्मपुराणे उपविभागे २६ अध्यायः ॥ अन्यत् विष्णुपुराणे ३ अंशे ९ अध्याये द्रष्टव्यम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वानप्रस्थः [vānaprasthḥ], [वाने वनसमूहे प्रतिष्ठते स्था-क]

A Brāhmaṇa in the third stage of his religious life; तपसा कर्षितो$त्यर्थं यस्तु ध्यानपरो भवेत् । संन्यासीह स विज्ञेयो वानप्रस्थाश्रमे स्थितः ॥

An anchorite, a hermit.

The Madhuka tree.

The Palāśa tree.

"https://sa.wiktionary.org/w/index.php?title=वानप्रस्थः&oldid=248731" इत्यस्माद् प्रतिप्राप्तम्