सामग्री पर जाएँ

वानस्पत्यः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वानस्पत्यः, पुं, (वनस्पतौ भवः । वनस्पति + “दित्यदित्यादित्येति ।” ४ । १ । ८५ । ण्यः ।) पुष्पजातफलवृक्षः । स तु आम्रजम्ब्वादिः । इत्यमरः ॥ (वनस्पतीनां समूहः । “दित्य- दित्येति ।” ण्यः । वनस्पतिसमूहे, क्ली । इति काशिका ॥ वनस्पतिजाते, त्रि । यथा, वाज- सनेयसंहितायाम् । १ । १४ । “अद्रिरसि वानस्पत्यः ।” “हे उदूखल त्वं यद्यपि वानस्पत्यः दारुमय- स्तथापि दृढत्वात् अद्रिरसि ।” इति तद्भाष्ये महीधरः ॥ यथाच, महाभारते । ३ । १२१ । ४ । “तस्य सप्तसु यज्ञेषु सर्व्वमासीद्धिरन्मयम् । वानस्पत्यञ्च भौमञ्च यद्द्रव्यं नियतं मखे । चषालयूपचमसाः स्थाल्यः पात्र्यः स्रुचः स्रुवाः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वानस्पत्यः [vānaspatyḥ], A tree the fruit of which is produced from flowers; e. g. the mango. -a.

Wooden; यच्चापि द्रव्य- मुपयुज्यते ह वानस्पत्यमायसं पार्थिवं वा Mb.3.186.25.

Performed under trees (a sacrifice).

"https://sa.wiktionary.org/w/index.php?title=वानस्पत्यः&oldid=248826" इत्यस्माद् प्रतिप्राप्तम्