वामः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वामः, त्रि, (वमति वम्यते वेति । वम उद्गिरणे + “ज्वलितिकसन्तेभ्यो णः ।” ३ । १ । १४० । इति णः । यद्वा, वातीति । वा गतिगन्धनयोः + “अर्त्तिस्तुसुहुसृधृक्षिक्षुभायावापदीति । उणा० १ । १३९ । इति मन् ।) वल्गुः । (यथा, रघौ । ७ । ५७ । “स दक्षिणं तूणमुखेन वामं व्यापारयन् हस्तमलक्ष्यताजौ । आकर्णकृष्टा सकृदस्य योद्धुः मौर्व्वीव बाणान् सुषुवे रिपुघ्नान् ॥”) प्रतीपः । (यथा, वैराग्यशतके । ५३ । “दुःखेनोपार्ज्ज्यन्ते पाल्यन्ते प्रत्यहञ्च लाल्यन्ते । वामाः स्त्रियो विमूढैरुपभुञ्जानाः सुखं विगु- णम् ॥” यथाच, साहित्यदर्पणे । १० । “वामा यूयमहो विडम्बरसिकः कीदृक् स्मरो वर्त्तते ॥”) सव्यः । इत्यमरमेदिनीकारौ ॥ (यथा, राज- तरङ्गिण्याम् । १ । २ । “भालं वह्निशिखाङ्कितं दधदधिश्रोत्रं वहन् सम्भृत- क्रीडत् कुण्डलिजृम्भितं जलधिजच्छायाच्छ- कण्ठच्छविः । वक्षो बिभ्रदहीनकञ्चुकचितं बद्धाङ्गनार्द्धस्य वो भागः पुङ्गवलक्षणोऽस्तु यशसे वामोऽथवा दक्षिणः ॥”) अधमः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ वामहस्तेन जलपानभोजननिषेधो यथा । हारीतः । “न पिबेन्न च भुञ्जीत द्बिजः सव्येन पाणिना । नैकहस्तेन च जलं शूद्रेणावर्ज्जितं पिबेत् ॥” इति आह्निकतत्त्वम् ॥ अपि च । “न वामहस्तेनोद्धत्य पिबेद्बक्त्रेण वा जलम् । नोत्तरेदनुपस्पृश्य नाप्सु रेतः समुत्सृजेत् ॥” इति कौर्म्मे १५ अध्यायः ॥ “वामः कायो ब्राह्मणोऽपि मांसमद्यादिभुक्तये । कृतो मया मोहनाय चार्व्वाकादिप्रवर्त्तकः ॥” इति कालिकापुराणे ७७ अध्यायः ॥ (वननीयः । यथा, ऋग्वेदे । ६ । ५३ । २ । “अभिनो नर्य्यं वसु वीरं प्रयतदक्षिणम् । वामं गृहपतिं नय ।” “वामं वननीयम् ।” इति तद्भाष्ये सायणः ॥ वननीयं याचनीयं वनु याचने इत्यस्य प्रयोगो ज्ञातव्यः ॥)
वामः, पुं, (वातीति । वा गतिगन्धनयोः + मन् ।) हरः । (यथा, भागवते । ४ । ३ । ८ । “प्रजापतेस्ते श्वशुरस्य साम्प्रतं निर्य्यापितो यज्ञमहोत्सवः किल । वयञ्च तत्राभिसराम वाम ! ते यद्यर्थितामी विबुधा व्रजन्ति ॥”) कामदेवः । पयोधरः । इति मेदिनी । मे, २९ ॥ (श्रीकृष्णस्य भद्रागर्भोत्पन्नः पुत्त्रविशेषः । यथा, भागवते । १० । ६१ । १७ । “संग्रामजित् बृहत्सेनः शूरप्रहरणोऽरिजित् । जयः सुभद्रो भद्राया वाम आयुश्च सत्यकः ॥”)
