वामनव्रत
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वामनव्रतम्, क्ली, (वामनदेवताकं व्रतम् ।) श्रवण- द्वादशीकर्त्तव्यो वामनदेवस्य व्रतविशेषः । अथ श्रीवामनव्रतविधिः । “नत्वा गुरुमनुज्ञाप्य पश्चान्नियममाचरेत् । न हि सिद्धेद्गुरोर्भक्तिं नियमञ्च विना फलम् ॥” नियममन्त्रः । “एकादश्यां निराहारः स्थित्वा चैवापरेऽहनि । पूजयित्वा जगन्नाथं वामनः प्रीयतामिति ॥ यथाशक्त्या च दानानि द्विजाग्र्येभ्यः प्रदापयेत् । कुर्य्याज्जागरणं रात्रौ गीतशास्त्रसमन्वितम् ॥ श्रद्धया परया युक्तो निशामनिमिषेक्षणः । प्रभाते भोजयेद्विप्रान् द्वादश्यां पारणं ततः । कुर्य्यात् स्वयं श्रद्धया तत् सर्व्वं सफलतां व्रजेत् ॥” तन्माहात्म्यञ्च तत्रैव । “एवं कृते तु कालेय व्रतेऽस्मिन् विजयादिने । न दुर्लभतरं किञ्चिदिह लोकेऽथवा परे ॥ फलमस्य व्रतस्योक्तं दत्त्वा पित्रोर्नरोत्तमः । वंशोद्धारकरो मुक्तिं याति पैत्र्यादृणादपि ॥ न पावनतरं किञ्चिदतः परमिहोच्यते । विजयाव्रततुल्यञ्च न परं परिपठ्यते ॥” भविष्योत्तरे च । “समाप्ते तु व्रते तस्मिन् यत् पुण्यं तन्निबोध मे । चतुर्युगानि राजेन्द्र ! सप्तसप्ततिसङ्ख्यया ॥ प्राप्य विष्णुपुरं राजन् क्रीडते कालमक्षयम् । इहागत्य भवेद्राजा प्रतिपक्षभयङ्करः ॥ हस्त्यश्वरथयानानां दाता भोक्ता विमत्सरः । रूपसौभाग्यसम्पन्नो दोर्घायुर्निरुजो भवेत् । पुत्त्रपौत्त्रैः परिवृतो जीवेच्च शरदां शतम् ॥” इति श्रीहरिभक्तिविलासे १५ विलासः ॥
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वामनव्रत/ वामन--व्रत n. N. of a partic. व्रतto be observed on the 12th day of श्रावणin celebration of विष्णु's dwarf-incarnation L. (See. वामन-द्वादशी-व्रत).
