सामग्री पर जाएँ

वामवेधशुद्धिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वामवेधशुद्धिः, स्त्री, (वामे प्रतिकूले यो वेध- स्तद्विषये शुद्धिर्विशोधनम् । यद्बा, वामेन विप- रीतेन वेधेन शुद्धिः ।) स्वराश्यपेक्षया द्बादश- चतुर्थनवमगृहस्थो विरुद्धोऽपि चन्द्रः यदि शुक्र- शनिकुजजीवार्कयुक्तगृहात् सप्तमगृहे तिष्ठति तदा नराणां अभिलषितफलदाता भवति । यदि तु सितशनिकुजजीवार्कयुक्तगृहात् दशम- पञ्चमाष्टमगृहे तिष्ठति तदा नराणां स्वराश्य- पेक्षया यथासंख्यं अष्टमपञ्चमद्वितीयगृहगोऽपि चन्द्रः प्रचुरफलदाता भवति । यथा, -- “सितशनिकुजजीवार्कास्त इन्दुर्नराणां व्ययसुखनवमस्थोऽपीष्टदाता तथैषाम् । खसुतनिधनगश्चेन्मृत्युपुत्त्रार्थगोऽपि प्रचुरशुभफलं स्याद्वामवेधेन शुद्धिः ॥” वामवेधत्वञ्च द्यूनजन्मेति एवमत्रेति वक्ष्यमाण- वचनाभ्यामेकार्थत्वाद्बोध्यम् ॥ * ॥ अथ दक्षिणवेधवामवेधकथनम् । “लाभविक्रमखशत्रुषु स्थितः शोभनो निगदितो दिवाकरः । खेचरैः सुततपोजलान्त्यगै- र्व्यार्किभिर्यदि न विध्यते तदा ॥ द्यूनजन्मरिपुलाभखत्रिग- श्चन्द्रमाः शुभफलप्रदस्तदा । स्वात्मजान्त्यमृतिबन्धुधर्म्मगै- र्विध्यते न विबुधैर्यदि ग्रहः ॥ विक्रमाय रिपुगः शुभः कुजः स्यात्तदान्त्यसुतधर्म्मगैः खगैः । चेन्न विद्ध इनसूनुरप्यसौ किन्तु घर्म्मघृणिना न विध्यते ॥ स्वाम्बुशत्रुमृतिस्वायगः शुभो ज्ञस्तदा न खलु विध्यते यदा । आत्मजत्रिनवकाद्यनैधन- प्रान्त्यगैर्विविधुभिर्नभश्चरैः ॥ स्वायधर्म्मतनयद्युनस्थितो नाकनायकपुरोहितः शुभः । रिप्फरन्ध्रखजलत्रिगैर्यदा विध्यते गगनचारिभिर्नहि ॥ आसुताष्टमतपोव्ययायगो विद्ध आस्फु जिदशोभनः स्मृतः । नैधनास्ततनुकर्म्मधर्म्मधी- लाभवैरिसहजस्थखेचरैः ॥” इति ज्योतिस्तत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=वामवेधशुद्धिः&oldid=165138" इत्यस्माद् प्रतिप्राप्तम्