सामग्री पर जाएँ

वामाचारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वामाचारः, पुं, (वामो विपरीतो वेदविरुद्धो वा आचारः ।) आचारविशेषः । यथा, -- “पञ्चतत्त्वं खपुष्पञ्च पूजयेत् कुलयोषितम् । वामाचारो भवेत्तत्र वामा भूत्वा यजेत् पराम् ॥” इत्याचारभेदतन्त्रम् ॥ तदाचारवतां नरकगमनं यथा, -- “स्वधर्म्मरहिता विप्रा वेदान्यसेविनः सदा । भ्रष्टाचाराश्च वामाञ्च ते यान्ति नरकं ध्रुवम् ॥” इति ब्रह्मवैव्रर्त्ते प्रकृतिखण्डे २४ अध्यायः ॥ तत्पशंसा यथा, -- “चत्वारो देवि वेदाद्याः पशुभावे प्रतिष्ठिताः । वामाद्यास्त्रय आचारा दिव्ये वीरे प्रतिष्ठिताः ॥” इति नित्यातन्त्रम् ॥ “सर्व्वेभ्यश्चोत्तमा वेदा वेदेभ्यो वैष्णवं महत् । वैष्णवादुत्तमं शैवं शैवाद्दक्षिणमुत्तमम् ॥ दक्षिणादुत्तमं वामं वामात् सिद्धान्तमुत्तमम् । सिद्धान्तादुत्तमं कौलं कौलात् परतरं नहि ॥” इति कुलार्णवतन्त्रे २ खण्डम् ॥ * ॥ तदाचारयुक्तस्य निषिद्धकर्म्माणि यथा, -- “न दद्यात् ब्राह्मणो मद्यं महादेव्यै कथञ्चन । वामकामो ब्राह्मणो हि मद्यं मांसं न भक्ष- येत् ॥” तदनुकल्पो यथा । कुलचूडामणौ । “यत्रासवमवश्यन्तु ब्राह्मणन्तु विशेषतः । तत्र गुडार्द्रकं दद्यात् ताम्रे वा विसृजेन्मधु ॥ देव्यास्तु दक्षिणे भागे चक्रपार्श्वे निवेदयेत् । एतद्द्रव्यन्तु शूद्रस्य नान्येषान्तु कदाचन ॥ वैश्यस्य माक्षिकं शुद्धं क्षत्त्रियस्य तु साज्यकम् । ब्राह्मणस्य गवां क्षीरं ताम्रे वा विसृजेन्मधु । नारिकेलोदकं कांस्ये सर्व्वेषां द्रव्यशोधनम् ॥” क्षत्त्रियवैश्ययोस्तु गौडी माध्वी च दातव्या तत्र तयोरधिकारात् तदभावे अनुकल्पविधानम् । तथा च । “गोक्षीरं ब्राह्मणो दद्यात् द्रव्यमाज्यञ्च बाहुजः । तेषां संज्ञा कृता मुद्रा महामोदप्रदायिनी ॥” तेषां शोधनन्तु स्वतन्त्रतन्त्रे । ओ~ प्रतद्विष्णु- रित्यादि मांसम् । त्र्यम्बकमित्यादि मीनम् । तद्बिष्णोरित्यादि मुद्राम् ॥ * ॥ अथ शक्ति- शोधनम् । तत्र भावचूडामणौ । “अदीक्षितकुलासङ्गात् सिद्धिहानिः प्रजायते । तत्कथाश्रवणं चेत् स्यात् तत्तल्पगमनं यदि । स कुलीनः कथं देवि पूजयेत् परमेश्वरीम् ॥” श्रीक्रमे । संशोधनमनाचर्य्येति । कौलिकतन्त्रे । “अभिषेकाद्भवेच्छुद्धिर्म्मन्त्रस्योच्चारबिन्दुभिः । बलाद्वा यत्नतो वापि अभिषेकं समाचरेत् ॥” अभिषेकमन्त्रस्तु । “आदौ वाणीं समुच्चार्य्य त्रिपुरायै समुद्धरेत् । नमःशब्दं समुच्चार्य्य इमां शक्तिं ततो वदेत् ॥ पवित्रीकुरु शब्दान्ते मम सिद्धिं कुरु प्रिये । वह्निजायां समुच्चार्य्य शुद्धिमन्त्रः सुरेश्वरि । तस्याः कर्णेऽभेदबुद्ध्या मायाबीजं समुद्धरेत् ॥” इति शक्तिशोधनम् ॥ * ॥ ततः शोधितद्रव्यमर्ध्ये क्षिपेत् । श्रीक्रमे अर्ध्य- विधौ । “पूर्ब्बशोधितद्रव्यन्तु गुप्तैनैव च संक्षिपेत् ॥” स्वतन्त्रतन्त्रे । “आद्यद्रव्यमर्घ्यपात्रे निःक्षिप्य प्रयतः सुधीः । कुण्डगोलोद्भवं द्रव्यं स्वयम्भुकुसुमं तथा । अर्ध्यं दत्त्वा महेशानि सर्व्वसिद्धीश्वरो भवेत् ॥ सुरया चार्घ्यदानेन योगिनीनां भवेत् प्रियः । महायोगी भवेद्देवि पीठप्रक्षालितैर्ज्जलैः ॥” भैरवतन्त्रे । “पञ्चमात् तु परं नास्ति शाक्तानां सुखमोक्षयोः । केवलैः पञ्चमैर्व्वापि सिद्धो भवति साधकः ॥” तेन पञ्चमकारेण पूजा कर्त्तव्या । इति तन्त्र- सारः ॥

"https://sa.wiktionary.org/w/index.php?title=वामाचारः&oldid=165143" इत्यस्माद् प्रतिप्राप्तम्