वारः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वारः, पुं, (वारयति व्रियते वेति । वृ + णिच् + अच् । वृ + घञ् वा ।) समूहः । अवसरः । इत्यमरः ॥ (यथा, महाभारते । १ । १६१ । ७ । “एकैकश्चापि पुरुषस्तत्प्रयच्छति भोजनम् । स वारो बहुभिर्वर्षैर्भवत्यसुतरो नरैः ॥”) सूर्य्यादिवासरः । द्बारः । हरः । कुब्जवृक्षः । क्षणः । इति मेदिनी । रे, ६५ ॥ * ॥ अथ वाराणां संज्ञा । “चरः सौम्यो गुरुः क्षिप्रो मृदुः शुक्रो रविर्ध्रुवः । शनिश्च दारुणो ज्ञेयो भौम उग्रः शशी समः ॥ चरक्षिप्रैः प्रयातव्यं प्रवेष्टव्यं मृदुध्रुवैः । दारुणोग्रैश्च योद्धव्यं क्षत्त्रियैर्जयकाङ्क्षिभिः ॥ नृपाभिषेकोऽग्निकार्य्यं सूर्य्यवारे प्रशस्यते । सोमे तु लेपयानञ्च कुर्य्याच्चैव गृहादिकम् ॥ सैनापत्यं शौर्य्ययुद्धं शस्त्राभ्यासः कुजे तथा । सिद्धिकार्य्यञ्च मन्त्रश्च यात्रा चैव बुधे स्मृता ॥ पठनं देवपूजा च वस्त्राद्याभरणं गुरौ । कन्यादानं गजारोहः शुक्रे स्यात् समयः स्त्रियाः । स्थाप्यं गृहप्रवेशश्च गजबन्धः शनौ शुभः ॥” इति गारुडे ६२ अध्यायः ॥ सावनदिनवद्वारप्रवृत्तिः सूर्य्योदयावधिरेव । सूर्य्यसिद्धान्ते । “सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा । मध्यमग्रहभुक्तिश्च सावनेन प्रकीर्त्तिताः ॥” अत्र दिनाधिपस्य रव्यादेर्भोग्यं दिनं वाररूपं सावनगणनोक्तं व्यवहारोऽपि तादृगेव । तिथि- विवेकेऽपि । भवतु वारयोगे व्यस्ततिथेर्ग्रहणं तस्य दिनद्वयेऽसम्भवादित्युक्तम् । सावनदिन- माह सूर्य्यसिद्धान्तः । “उदयादोदयं भानोर्भौमसावनवासराः ॥” भौमेति पित्रादिदिनव्यावृत्त्यर्थम् । यत्तु रेखा- पूर्ब्बपरयोरित्यादिना ज्योतिषे वारप्रवृत्तिरुक्ता तज्ज्योतिःशास्त्रोक्तकालहोरादिज्ञापनार्थमिति ज्योतिस्तत्त्वे बहुधा विवृतम् । “नैवास्तमनमर्कस्य नोदयः सर्व्वदा सतः । उदयास्तमनाख्यं हि दर्शनादर्शनं रवेः ॥ यैर्यत्र दृश्यते भास्वान् स तेषामुदयः स्मृतः ॥” इति विष्णुपुराणात् सूर्य्यदर्शनयोग्यकालादेव वारघटककर्म्मसु स एव कालः । इति ज्योति- स्तत्त्वम् ॥ * ॥ अथ शोभनवाराः । “रविः सोमो मङ्गलश्च बुधो जीवः सितः शनिः । एतेषां नामतो वारा विख्याताः सर्व्वकर्म्मसु ॥ सितेन्दुबुधजीवानां वाराः सर्व्वत्र शोभनाः । भानुभूसुतमन्दानां शुभकर्म्मसु केष्वपि ॥” इति ज्योतिःसागरः ॥ अथ वारवेला । “कृतमुनियमशरमङ्गल- रामर्त्तुषु भास्करादियामार्द्धे । प्रभवति हि वारवेला न शुभाशुभकार्य्यकरणाय ॥” अथ कालवेला । “कालस्य वेला रवितः शराक्षि- कालानलागाम्बुधयो गजेन्दू । दिने निशायामृतुवेदनेत्र- नगेषु रामा विधुदन्तिनौ च ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥ तयोर्व्वर्ज्यत्वं यथा, -- “रवौ वर्ज्यं चतुःपञ्च सोमे सप्तद्वयं तथा । कुजे षष्ठद्वयञ्चैव बुधे बाणतृतीयकम् ॥ गुरौ सप्ताष्टकं चैव त्रिचत्वारि च भार्गवे । शनावाद्यञ्च षष्ठञ्च शेषञ्च परिवर्ज्जयेत् ॥ * ॥ रवौ षष्ठं विधौ वेदं कुजवारे द्वितीयकम् । बुधे सप्त गुरौ पञ्च भृगुवारे तृतीयकम् । शनावाद्यं तथा चान्त्यं रात्रौ कालं विवर्जयेत् ॥” इति सारसंग्रहः ॥ * ॥ अथ स्त्रीणां प्रथमरजस्वलायां वारफलम् । “आदित्ये विधवा नारी सोमे चैव पतिव्रता । वेश्या मङ्गलवारे च बुधे सौभाग्यमेव च ॥ बृहस्पतौ पतिः श्रीमान् शुक्रे पुत्त्रवती भवेत् । शनौ बन्ध्या तु विज्ञेया प्रथमस्त्री रजस्वला ॥” इति मथुरेशकृतसारसंग्रहः ॥ (बालः । यथा, ऋग्वेदे । २ । ४ । ४ । “वियोभरिभ्रदोषधीषु जिह्वा मत्यो न रथ्यो दोधवीति वारान् ॥” “रथ्यो रथार्होऽत्योन वाजी यथा वारान् दंश- वारणसाधनान् बालान् दोधवीति कम्पयति ।” इति तद्भाष्ये सायणः ॥ वरणीये, त्रि, । यथा, ऋग्वेदे । १ । १२८ । ६ । “विश्वस्मा इत्सुकृते वारमृण्वत्यग्निर्द्बारान् वृण्वति ॥” “वारं सर्व्वैर्वरणीयम् ॥” इति तद्भाष्ये सायणः ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वारः [vārḥ], [वृ-घञ्]
That which covers, a cover.
A multitude, large number; as in वारयुवति; ते स्ववारं समा- स्थाय वर्त्मकर्मणि कोविदाः Rām.2.8.5.
A heap, quantity.
A herd, flock; वारी वारैः सस्मरे वारणानाम् Śi.18. 56.
A day of the week; as in बुधवार, शनिवार.
Time, turn; शशकस्य वारः समायातः Pt.1; अप्सरावारपर्यायेण V.5; R.19.18; often used in pl. like the English 'times'; बहुवारान् 'many times', कतिवारान् 'how many times'.
An occasion, opportunity.
A door, gate.
The opposite bank of a river.
N. of Śiva.
Ved. A tail.
रम् A vessel for holding spirituous liquor.
A mass of water (जलसंघ). -Comp. -अङ्गना, -नारी, -युवति f., योषित् f., -वधू, -वनिता, विलासिनी, -सुन्दरी, -स्त्री 'a woman of the multitude', a common woman, harlot, courtezan, prostitute; Ratn.1. 26; Ś. Til.16.
कीरः a wife's brother (according to Trik. Medinī spells with ब).
the submarine fire.
a hair-dresser or comb.
a louse.
a courser.
a carrier, porter; (these meanings are given in Medinī). -बु(बू)षा the plantain tree. -मुख्या the chief of a number of harlots.
बा (वा) णः, णम् Armour, a coat of mail; अगमत् कैतकं रजः । तद्योधवारबाणानामयत्न- पटवासताम् R.4.55; Śi.15.118; धुन्वाना जगृहुर्बाणान् वारबाण- विदारणान् Parṇāl.5.68.
a variety of blanket; Kau. A.2.11. -योगः powder.
वाणिः a piper, player on a flute.
a musician.
a year.
a judge. (-णिःf.) a harlot. -वाणी a harlot.
वृषा corn.
the plantain tree. -वेला a time or period of the day when no act is performed; कृतमुनियमशरमङ्गलरामर्तुषु भास्करादि- यामार्धे । प्रभवति हि वारवेला न शुभा शुभकार्यचरणाय ॥ Jyotistattvam.
सेवा harlotry, prostitution.
a number of harlots.
