सामग्री पर जाएँ

वाराही

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वाराही, स्त्री, (वाराह + ङीष् ।) ब्रह्माण्या- द्यष्टमातृकान्तर्गतमातृकाविशेषः । यथा, -- “वराहरूपधारी च वराहोपम उच्यते । वाराहजननी चाथ वाराही वरवाहना ॥” इति देवीपुराणे देवीनिरुक्ताध्यायः ४५ ॥ योगिनीविशेषः । यथा, -- “दुर्गा चण्डेश्वरी चण्डी वाराही कार्त्तिकी तथा । हरसिद्धा तथा काली इन्द्राणी वैष्णवी तथा ॥ भद्रकाली विशालाक्षी भैरवी कामरूपिणी । एताः सर्व्वाश्च योगिन्यो भृङ्गारैः स्नापयन्तु ते ॥” तीर्थविशेषः । यथा, -- “वाराही यमुना गङ्गा करतोया सरस्वती । कावेरी चन्द्रभागा च सिन्धुभैरवसागराः । पशुस्नानविधानाय सान्निध्यमिह कल्पय ॥” इति बृहन्नन्दिकेश्वरपुराणोक्तदुर्गापूजापद्धतिः ॥ वराहदेवस्य शक्तिः । यथा, -- “यज्ञवाराहमतुलं रूपं या बिभ्रतो हरेः । शक्तिः साप्याययौ तत्र वाराहीं विभ्रती तनुम् ॥” इति चण्डी ॥ अपि च । “वाराहरूपिणीं देवीं दंष्ट्रोद्धृतवसुन्धराम् । शुभदां सुप्रभां शुभ्रां वाराहीं तां नमाम्यहम् ॥” इति बृहन्नन्दिकेश्वरपुराणोक्तदुर्गापूजापद्धतिः ॥ वराहक्रान्ता । चामालु इति ख्यातः । तत्- पर्य्यायः । विष्वक्सेनप्रिया २ घृष्टिः ३ वदरा ४ । इत्यमरः ॥ गृष्टिः ५ । इति भरतः ॥ शूकरी ६ क्रोडकन्या ७ विष्वक्सेनकान्ता ८ वराही ९ कौमारी १० त्रिनेत्रा ११ ब्रह्मपुत्त्री १२ क्रोडी १३ कन्या १४ गृष्टिका १५ माधवेष्टा १६ शूकरकन्दः १७ क्रोडः १८ वनवासी १९ कुष्ठ- नाशनः २० बल्यः २१ अमृतः २२ महावीर्य्यः २३ महौषधम् २४ शम्बरकन्दः २५ वराह- कन्दः २६ वीरः २७ ब्राह्मीकन्दः २८ सुककन्दः २९ वृद्धिदः ३० व्याधिहन्ता ३१ । अस्य गुणाः । तिक्तत्वम् । कटुत्वम् । विषपित्तकफकुष्ठप्रमेह- क्रिमिनाशित्वम् । वृष्यत्वम् । बल्यत्वम् । रसा- यणत्वञ्च । इति राजनिर्घण्टः ॥ अन्यच्च । “वाराहीकन्द एवान्यैश्चर्म्मकारालुको मतः । अनूपे स भवेद्देशे वाराह इव लोमवान् ॥” इति भावप्रकाशः ॥ श्यामापक्षी । इति राजनिर्घण्टः ॥ मेदिनीमते पवर्गीयबकारादिरयं शब्दः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वाराही स्त्री।

शक्तिदेवता

समानार्थक:ब्राह्मी,माहेश्वरी,कौमारी,वैष्णवी,वाराही,इन्द्राणी,चामुण्डा

1।1।35।4।1

कपर्दोऽस्य जटाजूटः पिनाकोऽजगवं धनुः। प्रमथा: स्युः पारिषदा ब्राह्मी इत्याद्यास्तु मातरः। ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा। वारीही च तथेन्द्राणी चामुण्डा सप्तमातरः॥

सम्बन्धि1 : शिवः

जन्य : शिवः

 : चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाराही स्त्री।

वाराहीकन्दम्

समानार्थक:विष्वक्सेनप्रिया,गृष्टि,वाराही,बदरा

2।4।151।1।3

विष्वक्सेनप्रिया गृष्टिर्वाराही बदरेत्यपि। मार्कवो भृङ्गराजः स्यात्काकमाची तु वायसी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वाराही¦ स्त्री वराहस्येयमण् ङीप्। अष्टमातृकामध्ये

१ वराहशक्तौ
“यज्ञवराहमतुलं रूपं या विभ्रता हरेः। शक्तिः साप्याययौ तत्र वाराहीं विभ्रती तनुम्” देवीमा॰
“वाराही नारसिंही च” श्यामास्तवः।

२ योगिनीभेदेवृहन्नन्तिकेश्वरपु॰।

३ वराहक्रान्तायाम् अमरः

४ वराह-योषिति च

५ श्याभाखगे राजनि॰।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वाराही [vārāhī], 1 A sow.

The earth.

The Śakti of Viṣṇu in the form of a boar.

A measure. -Comp. -कन्दः N. of a bulbous plant (Mar. डुकरकंद).

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वाराही f. See. below

वाराही f. a sow W.

वाराही f. the शक्तिor female Energy of the Boar form of विष्णुYa1jn5. Sch.

वाराही f. N. of one of the मातृs attending on स्कन्दMBh.

वाराही f. a kind of bulbous plant , Dioscorea VarBr2S.

वाराही f. the earth W.

वाराही f. a measure ib.

वाराही f. N. of a river Cat.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

(I)--a surname of ललिता. Br. IV. १७. १९.
(II)--a शक्ति; a mind-born mother. फलकम्:F1:  Br. IV. १९. 7; २०. ३७; M. १७९. ११.फलकम्:/F Icon of, with buffalo mount. फलकम्:F2:  Ib. २६१. ३०.फलकम्:/F
(III)--a R. of the वराहद्वीपम्. वा. ४८. ३९.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वाराही वि.
(वराह + अण् + ङीप्) सुअर के चर्म से निर्मित (वाराही उपानहा अभ्यारोहति) मा.श्रौ.सू. 9.1.4.6।

"https://sa.wiktionary.org/w/index.php?title=वाराही&oldid=480179" इत्यस्माद् प्रतिप्राप्तम्