सामग्री पर जाएँ

वारिदः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वारिदः, पुं, (वारि ददातीति । दा + “आतो- ऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) मेघः । (यथा, मृच्छटिकनाटके । ५ अङ्के । “विद्युद्बारिदगर्ज्जितैः सचकिता तद्दर्शना- काङ्क्षिणी । पादौ नूपुरलग्नकर्द्दमधरौ प्रक्षालयन्ती स्थिता ॥”) मुस्तकः । इत्यमरः ॥ (यथा, सुश्रुते चिकित्- सितस्थाने । ३८ अध्याये । “रास्नारग्वधवर्षाभूकटुकोशीरवारिदैः । त्रायमाणामृतारक्तापञ्चमूलविभीतकैः ॥” वारिदातरि, त्रि । यथा, मनौ । ४ । २२९ । “वारिदस्तृप्तिमाप्नोति दीर्घमायुर्हिरण्यदः । गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्त- मम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=वारिदः&oldid=165287" इत्यस्माद् प्रतिप्राप्तम्