सामग्री पर जाएँ

वारिराशिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वारिराशिः, पुं, (वारीणां राशयो यत्र ।) समुद्रः । इति त्रिकाण्डशेषः ॥ (यथा, कथा- सरित्सागरे । ६३ । ९८ । “तस्य भक्षयतो हस्ताच्च्युतमेकमुदुम्बरम् । जघास शिशुमारोऽत्र वारिराशिजलाश्रयः ॥” वारीणां राशिः । जलसमूहश्च । यथा, रघौ । ४ । ४६ । “शैलोपमः शैबलमञ्जरीणां जालानि कर्षन्नुरसा स पश्चात् । पूर्व्वं तदुत्पीडितवारिराशिः सरित्प्रवाहस्तटमुत्ससर्प ॥”)

"https://sa.wiktionary.org/w/index.php?title=वारिराशिः&oldid=165314" इत्यस्माद् प्रतिप्राप्तम्