सामग्री पर जाएँ

वारिरुहम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वारिरुहम्, क्ली, (वारिणि रोहति जायते इति । रुह + “इगुपधज्ञाप्रीकिरः कः ।” ३ । १ । १३५ । इति कः ।) कमलम् । इति राजनिर्घण्टः ॥ (यथा, किरातार्ज्जुनीये । ५ । १३ । “विकचवारिरुहन्दधतं सरः सकलहंसगणं शुचिमानसम् । शिवमगात्मजया च कृतेर्ष्यया सकलहंसगणं शुचिमानसम् ॥”) जलजाते, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=वारिरुहम्&oldid=165316" इत्यस्माद् प्रतिप्राप्तम्