वारुणकर्म्म
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वारुणकर्म्म, क्ली, (वारुणं जलसम्बन्धि कर्म्म ।) जलाशयखननादि । तस्य शुभाशुभकालादि यथा, -- यम उवाच । “सुदिने शुभनक्षत्रे चन्द्रताराबलैर्युते । सदृतुस्तु भवेद्यत्र काले तस्मिन् विधिः स्मृतः ॥ सदृतौ तु कृते कर्त्तुः संपूर्णस्तन्मनोरथः । कर्कटे पुत्त्रलाभस्तु सौख्यं तु मकरे भवेत् ॥ मीने यशोऽर्थलाभस्तु कुम्भे च सुबहूदकम् । वृषे च मिथुने वृद्धिर्वृश्चिके निर्ज्जलं भवेत् ॥ पितृतृप्तिस्तु कन्यायां तुलायां सत्यसङ्गतिः । सिंहे मेषे धनं नाशं जलस्य कुरुते द्विज । तथा चैतेषु लग्नेषु वारुणं कर्म्म नो दिशेत् ॥” इति वह्निपुराणे वारुणारामप्रतिष्ठानामा- ध्यायः ॥
