वारुणम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वारुणम्, क्ली, (वरुणो देवतास्येति । वरुण + अण् ।) जलम् । इति राजनिर्घण्टः ॥ (शत- भिषानक्षत्रम् । यथा, तिथितत्त्वे । “वारुणेन समायुक्ता मधौ कृष्णा त्रयोदशी । गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैः समा ॥” उपपुराणविशेषः । यथा, देवीभागवते । १ । ३ । १५ । “वारुणं कालिकाख्यञ्च शाम्बं नन्दिकृतं शुभम् । सौरं पाराशरप्रोक्तमादित्यं चातिबिस्तरम् ॥” पुं, भारतस्य खण्डविशेषः । यथा, विष्णुपुराणे । २ । ३ । ६ । “इन्द्रद्वीपस्तथा सौम्यो गन्धर्व्वस्त्वथ बारुणः ॥”) वरुणसम्बन्धिनि, त्रि । यथा, -- “पश्चिमे पुष्पदन्तञ्च वारुणञ्च प्रशस्यते । उत्तरेण तु भल्लाटं सौम्यञ्च शुभदं भवेत् ॥ उडुम्बरस्तथा याम्ये वारुणे पिप्पलः शुभः । प्लक्षश्चोत्तरतो धन्यो विपरीतास्त्वसिद्ध्वये ॥” इति मात्स्ये २२९ अध्यायः ॥ (यथा च महाभारते । ३ । १०२ । १ । “समुद्रं ते समाश्रित्य वारुणं निधिमम्भसाम् । कालेयाः संप्रवर्त्तन्ते त्रैलोक्यस्य विनाशने ॥”)
