सामग्री पर जाएँ

वार्क्षी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वार्क्षी, स्त्री, (वृक्षस्यापत्यं स्त्री । वृक्ष + अण् । ङीप् ।) स्त्रीविशेषः । (यथा, महाभारते । १ । १९७ । १५ । “तथैव मुनिजा वार्क्षी तपोभिर्भावितात्मनः । सङ्गताभूद्दश भ्रातॄन्नेकनाम्नः प्रचेतसः ॥” इयं हि मारिषापरनाम्नी कण्डुमुनेरौरसात् प्रम्लोचागर्भगता सती पश्चात् वृक्षेभ्य उत्पन्ना । तत्कथा यथा, विष्णुपुराणे । १ । १५ । १ -- ५३ । पराशर उवाच । “तपश्चरत्सु पृथिवीं प्रचेतःसु महीरुहाः । अरक्ष्यमाणामावब्रुर्ब्बभूवाथ प्रजाक्षयः ॥ नाशकन्मारुतो वातुं वृतं खमभवद् द्रुमैः । दशवर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः ॥ तद् दृष्ट्वा जलनिष्क्रान्ताः सर्व्वे क्रुद्धाः प्रचेतसः । मुखेभ्यो वायुमग्निञ्च तेऽसृजन् जातमन्यवः ॥ उन्मूलानथ तान् वृक्षान् कृत्वा वायुरशोषयत् ॥ तानग्निरदहद् घोरस्तत्राभूद् द्रुमसंक्षयः ॥ द्रुमक्षयमथो दृष्ट्वा किञ्चिच्छिष्टेषु शाखिषु । उपगम्याब्रवीदेतान् राजा सोमः प्रजापतीन् ॥ कोपं यच्छत राजानः शृणुध्वञ्च वचो मम । सन्धानं वः करिष्यामि सह क्षितिरुहैरहम् ॥ रत्नभूता च कन्येयं वार्क्षेयी वरवर्णिनी । भविष्यं जानता पूर्ब्बं मया गोभिर्व्विवर्द्धिता ॥ मारिषा नाम नाम्नैषा वृक्षाणामिति निर्म्मिता । भार्य्या वोऽस्तु महाभागा ध्रुवं वंशविवद्धिनी ॥ युष्माकं तेजसोऽर्द्धेन मम चार्द्धेन तेजसः । अस्यामुत्पत्स्यते विद्वान् दक्षो नाम प्रजापतिः ॥ मम चांशेन संयुक्तो युष्मत्तेजोमयेन वै । अग्निनाग्निसमो भूयः प्रजाः संवर्द्धयिष्यति ॥ कण्डुर्नाम मुनिः पूर्व्वमासीद् वेदविदां वरः । सुरम्ये गोमतीतीरे स तेपे परमं तपः ॥ तत्क्षोभाय सुरेन्द्रेण प्रम्लोचाख्या वराप्सराः । प्रयुक्ता क्षोभयामास तमृषिं सा शुचिस्मिता ॥ क्षोभितः स तया सार्द्धं वर्षाणामधिकं शतम् । अतिष्ठन्मन्दरद्रोण्यां विषयासक्तमानसः ॥ सा तं प्राह महात्मानं गन्तुमिच्छाम्यहं दिवम् । प्रसादसुमुखो ब्रह्मन् अनुज्ञां दातुमर्हसि ॥ तयैवमुक्तः स मुनिस्तस्यामासक्तमानसः । मुनिरुवाच । तपांसि मम नष्टानि हतं ब्रह्मविदां धनम् । हतो विवेकः केनापि योषिन्मोहाय निर्म्मिता ॥ ऊर्म्मिषत्कातिगं ब्रह्म ज्ञेयमात्मजयेन मे । मतिरेषा हृता येन धिक् तं काममहाग्रहम् ॥ व्रतानि वेदविद्याप्तिकारणान्यखिलानि च । नरकग्राममार्गेण सङ्गेनापहृतानि मे ॥ विनिन्द्ये त्थं स धर्म्मज्ञः स्वयमात्मानमात्मना । तामप्सरसमासीनामिदं वचनमब्रवीत् ॥ गच्छ पापे यथाकामं यत् कार्य्यं तत्कृतं त्वया । देवराजस्य मत्क्षोभं कुर्व्वन्त्या भावचेष्टितैः ॥ न त्वां करोम्यहं भस्म क्रोधतीव्रेण वह्निना । सतां साप्तपदं मैत्रमुषितोऽहं त्वया सह ॥ अथवा तव को दोषः किं वा कुप्याम्यहं तव ममैव दोषो नितरां येनाहमजितेन्द्रियः ॥ यया शक्रप्रियार्थिन्या कृतो मे तपसो व्ययः । त्वया धिक् तां महामोहमञ्जूषां सुजुगुप्सिताम् ॥ सोम उवाच । यावदित्थं स विप्रर्षिस्तां ब्रवीति सुमध्यमाम् । तावद् गलत्स्वेदजला सा बभूवातिवेपथुः ॥ प्रवेपमाणां सततं स्विन्नगात्रलतां सतीम् । गच्छ गच्छेतिंसक्रोधं उवाच मुनिसत्तमः ॥ सा तु निर्भत्सिता तेन विनिष्क्रम्य तदाश्रमात् । आकाशगामिनी स्वेदं ममार्ज्ज तरुपल्लवैः ॥ वृक्षाद् वृक्षं ययौ बाला तदग्रारुणपल्लवैः । निर्म्मार्ज्जमाना गात्राणि गलत्स्वदजलानि वै ॥ ऋषिणा यस्तदा गर्भस्तस्या देहे समाहितः । निर्ज्जगाम स रोमाच्च स्वेदरूपी तदङ्गतः ॥ तं वृक्षा जगृहुर्गर्भं एकं चक्रे तु मारुतः । मया चाप्यायितो गोभिः स तदा ववृधे शनैः ॥ वृक्षाग्रगर्भसंभूता मारिषाख्या वरानना । तां प्रदास्यन्ति वो वृक्षाः कोप एष प्रशान्ध- ताम् ॥ कण्डोरपत्यमेवं सा वृक्षेभ्यश्च समुद्गता । ममापत्यं तथा वायोः प्रम्लोचा तनया च सा ॥ स चापि भगवान् कण्डुः क्षीणे तपसि सत्तमः । पुरुषोत्तमाख्यं मैत्रेय विष्णोरायतनं ययौ ॥ तत्रैकाग्रमतिर्भूत्वा चकाराराधनं हरेः । ब्रह्मपारमयं कुर्व्वन् जपमेकाग्रमानसः । ऊर्द्ध्वबाहुर्महायोगी स्थित्वासौ भूपनन्दनाः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वार्क्षी f. " daughter of the trees " , N. of the wife of प्रचेतस्MBh.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--the daughter of trees, given in marriage to the ten Pracetas as. दक्ष was their son. भा. VI. 4. १५-17.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

VĀRKṢĪ : Daughter of the hermit Kaṇḍu. It is stated in (M.B. Ādi Parva, Chapter 195, Stanza 15, that she became the wife of the ten Pracetases. It is stated in Bhāgavata, Skandha 6, that Dakṣa was born from this Vārkṣī


_______________________________
*5th word in right half of page 831 (+offset) in original book.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वार्क्षी स्त्री.
(वृक्ष + अण् + ङीप्) पलाश के वृक्ष की, का.श्रौ.सू. 4.14.12 (समिधा, पलाशादिवृक्षीयाम्, स.वृ.)।

"https://sa.wiktionary.org/w/index.php?title=वार्क्षी&oldid=480185" इत्यस्माद् प्रतिप्राप्तम्