सामग्री पर जाएँ

वार्त्ताकुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वार्त्ताकुः, स्त्री, (वर्त्तते इति । वृत् + “वृते- र्वृद्धिश्च ।” उणा० ३ । ७९ । इति काकुः ।) स्वनामख्यातफलवृक्षः । वेगुन इति भाषा ॥ तत्पर्य्यायः । हिङ्गुली २ सिंही ३ भण्टाकी ४ दुष्प्रधर्षिणी ५ वार्त्ताकी ६ वार्त्ता ७ वाति- ङ्गणः ८ वार्त्ताकः ९ शाकविल्वः १० राज- कुष्माण्डः ११ । इति जटाधरः ॥ वार्त्तिकः १२ वातिगमः १३ वृन्ताकः १४ वङ्गणः १५ अङ्गणः १६ । इति शब्दरत्नावली ॥ कण्ट- वृन्ताकी १७ कण्टालुः १८ कण्टपत्रिका १९ निद्रालुः २० मांसकफला २१ वृन्ताकी २२ महोटिका २३ चित्रफला २४ कण्टकिनी २५ महती २६ कट्फला २७ मिश्रवर्णफला २८ नीलफला २९ रक्तफला ३० शाकश्रेष्ठा ३१ वृत्तफला ३२ नृपप्रियफला ३३ । अस्या गुणाः कटुत्वम् । रुच्यत्वम् । मधुरत्वम् । पित्तना- शित्वम् । बलपुष्टिकारित्वम् । हृद्यत्वम् । गुरु- त्वम् । वातेषु निन्दितत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “अग्निप्रदा मारुतनाशिनी च शुक्रप्रदा शोणितवर्द्धिनी च । हृल्लासकासारुचिनाशिनी च वार्त्ताकुरेषा गुणसप्तयुक्ता ॥ सा बाला कफवातघ्नी पृक्वा सक्षारपित्तला । सदाफला त्रिदोषघ्नी रक्तपित्तप्रसादनी ॥ अङ्गारपक्वा वार्त्ताकुः किञ्चित्पित्तकरी मता । कफमेदोऽनिलहरा सरा लघुतरा परा ॥” इति राजवल्लभः ॥ अन्यच्च । “वृन्ताकं स्वादु तीक्ष्णोष्णं कटुपाकमपित्तलम् । ज्वरवातवलासघ्नं दीपनं शुक्रलं लघु ॥ तद्बालं कफपित्तघ्नं वृद्धं पित्तकरं गुरु । वृन्ताकं पित्तलं किञ्चिदङ्गारोपरिपाचितम् ॥ कफमेदोऽनिलामघ्नमत्यन्तं लघु दीपनम् । तदेव हि गुरु स्निग्धं सतैलं लवणान्वितम् ॥ अपरं श्वेतवृन्ताकं कुक्कुटाण्डसमं भबेत् । तदर्शःसु विशेषेण हितं हीनञ्च पूर्ब्बतः ॥” इति भावप्रकाशः ॥

वार्त्ताकुः, पुं, (वृत् + काकुः ।) वार्त्ताकी । इति त्रिकाण्डशेषः ॥

"https://sa.wiktionary.org/w/index.php?title=वार्त्ताकुः&oldid=165373" इत्यस्माद् प्रतिप्राप्तम्