सामग्री पर जाएँ

वार्द्धुषिकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वार्द्धुषिकः, पुं, (वृद्ध्यर्थं द्रव्यं वृद्धिः तां प्रयच्छतीति । “प्रयच्छति गर्ह्यम् ।” ४ । ४ । ३० । इति ठक् । “वृद्धेर्वृधुषिभावो वक्तव्यः ।” इति वार्त्तिकोक्तेः वृधुषिभावः ।) वृद्धिजीवी । लभ्यभुक् । वाडि- खोर इति सुदखोर इति च भाषा । तत्प- र्य्यायः । कुसीदकः २ वृद्ध्याजीवः ३ वार्द्धुषिः ४ । इत्यमरः ॥ कुसीदः ५ कुसीदिकः ६ । इति शब्दरत्नावली ॥ तस्य लक्षणं यथा, -- “समर्घं धान्यमादाय महार्घं यः प्रयच्छति । स वै वार्द्धुषिको नाम हव्यकव्यबहिष्कृतः ॥” इति स्मृतिः ॥ तस्य वृद्धिग्रहणनियमो यथा, मनुः । “अशीतिभागं गृह्णीयात् मासाद्वार्द्धुषिकः शतात् । द्विकं शतं वा गृह्णीयात् सतां धर्म्ममनुस्मरन् ॥ द्विकं शतञ्च गृह्णानो न भवत्यर्थकिल्विषी । शतकार्षापणेऽशीतिभागं विंशतिकाः पणाः ॥” द्विकं पुराणद्वयम् । एवंविधं नियममतिक्रम्य अनापदि स्वयमन्यद्बारा वा स्वाच्छन्द्येन यो व्यवहरति तस्यैव प्रायश्चित्तम् । आपदि तु स्वयं करणे नियमातिक्रमे च न दोषः । इति प्रायश्चित्तविवेकः । इत्याह्निकतत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=वार्द्धुषिकः&oldid=165400" इत्यस्माद् प्रतिप्राप्तम्