वार्षिकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वार्षिकः, त्रि, (वर्षे भवः । वर्ष + “कालात् ठञ् ।” ४ । ३ । ११ । इति ठञ् ।) वर्षभवः । वात्स- रिकः । इति मेदिनी । के, १५६ ॥ (यथा, भागवते । ११ । ११ । ३७ । “यात्रावलिविधानञ्च सर्व्ववार्षिकपर्व्वसु ॥”) यथाच । “शरत्काले महापूजा क्रियते या च वार्षिकी । तस्यां ममैतन्माहात्म्यं पठितव्यं समाहितैः ॥” इति मार्कण्डेयपुराणम् ॥ वर्षाकालोद्भवश्च ॥ (यथा, अध्यात्मरामायणे । ४ । ४ । १ । “तत्र वार्षिकदिनानि राघवो लीलया मनिगुहासु सञ्चरन् । पक्वमूलफलभोगतोषितो लक्ष्मणेन सहितोऽवसत् सुखम् ॥”)
