सामग्री पर जाएँ

वावदूकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वावदूकः, त्रि, (पुनः पुनरतिशयेन वा वदतीति । वद + यङ् लुक् + “उलूकादयश्च ।” उणा० ४ । ४१ । इति ऊकः । “सर्व्वस्वे तु ‘यजजप- दशामिति ।’ ३ । २ । १६६ । इति बहुलवच- नादन्यतोऽपि भवत्यूकप्रत्ययः इति कृत्वा वाव- दूक इति साधितम् ।” इत्युणादिवृत्तौ उज्ज्वल- दत्तः ।) अतिशयवचनशीलः । तत्पर्य्यायः । वाचोयुक्तिपटुः २ वाग्मी ३ वक्ता ४ । इत्यमरः ॥ वचक्नः ५ सुवचाः ६ प्रवाक् ७ । इति जटा- धरः ॥ (यथा, महाभारते । १२ । १९ । २४ । “अमृतस्यावमन्तारो वक्तारो जनसंसदि । चरन्ति वसुधां कृत्स्नां वावदूका बहुश्रुताः ॥”)

"https://sa.wiktionary.org/w/index.php?title=वावदूकः&oldid=165450" इत्यस्माद् प्रतिप्राप्तम्