सामग्री पर जाएँ

वासकसज्जा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वासकसज्जा, स्त्री, (वासके प्रियसमागमवासरे सज्जतीति । सज्ज् + अच् । टाप् । यद्वा, वासकं वासवेश्म सज्जयतीति । सज्जि + अण् । टाप् ।) स्वीयादिनायिकाभेदः । (यथा, गीतगोविन्दे । ६ । ८ । “भवति विलम्बिनि विगलितलज्जा विलपति रोदिति वासकसज्जा ॥”) तस्या लक्षणं यथा । अद्य मे प्रियवासर इत्थं निश्चित्य या सुरतसामग्रीं सज्जीकरोति सा वासकसज्जा । वासको वासरः । अस्याश्चेष्टा मनोरथसखीपरिहासदूतीप्रश्नसामग्रीविधान- मार्गविलोकनादयः । मुग्धावासकसज्जा यथा, “हारं गुम्फति तारकातिरुचिरं ग्रथ्नाति काञ्चीलतां दीपं न्यस्यति किन्तु तत्र बहुलं स्नेहं न दत्ते पुनः । आलीनामिति वासकस्य रजनौ कामानुरूपाः क्रियाः साचिस्मेरमुखी नवोढसुमुखी दूरात् समुद्वी- क्षते ॥” मध्या वासकसज्जा यथा, -- “शिल्पं दर्शयितुं करोति कुतुकात् कह्लार- हारस्रजं चित्रप्रेक्षणकैंतवेन किमपि द्बारं ममुद्वीक्षते । गृह्णात्याभरणं नवं सहचरी भूषाजिगीषामिषा- दित्थं पद्मदृशः प्रतीत्य चरितं स्मेराननोऽभूत् स्मरः ॥” प्रौढा वासकसज्जा यथा, -- “कृतं वपुषि भूषणं चिकुरधोरणी धूपिता कृता शयनसन्निधौ क्रमुकवीटिकासम्भृतिः । अकारि हरिणीदृशा भवनमेत्य देहत्विषा स्फुरत्कनककेतकीकुसुमकान्तिभिर्दुर्दिनम् ॥” मनोरथश्च यथा, -- “आवयोरङ्गयोर्द्वैधे भूयो विरहपल्लवः । अद्वैते च स्मितस्फीतं न स्यादन्योन्यवीक्ष- णम् ॥” परकीया वासकसज्जा यथा, -- “श्वश्रुं स्वापयितुं छलेन च तिरोधत्ते प्रदीपा- ङ्कुरान् धत्ते सौधकपोतपोतनिनदैः साङ्केतिकं चेष्टितम् । शश्वत्पार्श्वविवर्त्तिताङ्गलतिकं लोलत्कपोल- द्युति क्वापि क्वापि कराम्बुजं प्रियधिया तल्पान्तिकं न्यस्यति ॥” इति रसमञ्जरी ॥ (तथाच साहित्यदर्पणे । ३ । ८९ । “कुरुते मण्डनं यस्याः सज्जिते वासवेश्मनि । सा तु वासकसज्जा स्याद्बिदितप्रियङ्गमा ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वासकसज्जा¦ स्त्री
“कुरुते मण्डनं या तु सज्जिते वास-वेश्मनि। सा तु वासकसज्जा स्यात्” इत्युक्तलक्षणेनायिकाभेदे वाससज्जाप्यत्र सा॰ द॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वासकसज्जा¦ f. (-ज्जा) A woman dressed with all her ornaments, and hav- ing her apartments, &c. decorated to receive her lover. E. वास clo- thes, कन् pleonasm, and सज्जा accoutrements; also with कन् added, वासकसज्जिका |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वासकसज्जा/ वासक--सज्जा f. a woman ready to receive her lover(See. वास-सज्जा) Ka1v. Sch.

"https://sa.wiktionary.org/w/index.php?title=वासकसज्जा&oldid=252052" इत्यस्माद् प्रतिप्राप्तम्