सामग्री पर जाएँ

वासगृहम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वासगृहम्, क्ली, (वासाय गृहम् ।) गर्भागारम् । इत्यमरः ॥ “द्वे गृहमध्यभागे शयनगृहे च गृहान्तर्गृहे इत्येके निर्व्वातत्वात् गर्भ इवागारं गर्भागारम् । वासाय गृहं वासगृहम् । वास- वेश्मादि चात्र ।” इति भरतः ॥ (यथा, बृहत्- संहितायाम् । ५३ । ७० । “वासगृहाणि च विन्द्याद् विप्रादीनामुदग्दिगाद्यानि । विशताञ्च यथा भवनम् भवन्ति तान्येव दक्षिणतः ॥”)

"https://sa.wiktionary.org/w/index.php?title=वासगृहम्&oldid=165491" इत्यस्माद् प्रतिप्राप्तम्