वासनम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वासनम्, क्ली, (वास्यते इति । वासि + ल्युट् ।) धूपनम् । वारिधानी । वस्त्रम् । इति मेदिनी । ने, १२९ ॥ वासः । इति शब्दरत्नावली ॥ ज्ञानम् । इति धरणिः ॥ निक्षेपाधारः । यथा, याज्ञवल्क्यः । “आधिसीमोपनिक्षेपजडवालधनैर्विना । तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैरिह ॥” उपनिक्षेपस्तु । “वासनस्थमनाख्याय समुद्रं यद्विधीयते ॥” इति नारदोक्तेः ॥ वासनं निक्षेपाधारभूतं सम्पुटादिकं समुद्रं ग्रन्थ्यादियुतम् । इति व्यवहारतत्त्वम् ॥ वसन- सम्बन्धिनि, त्रि ॥ (वसनेन क्रीतमिति । वसन + “शतमानविंशतिकसहस्रवसनादण् ।” ५ । १ । २७ । इति अण् । वसनेन क्रीते च, त्रि ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वासनम् [vāsanam], [वास्-ल्युट्]
Perfuming, scenting.
Infusing.
Dwelling, abiding.
An abode, a dwelling.
Any receptacle, a basket, box, vessel &c.; वासनस्थ- मनाख्याय हस्ते$न्यस्य यदर्प्यते Y.2.65. (वासनं निक्षेपाधारभूतं संपुटादिकं समुद्रं ग्रन्थ्यादियुतम्).
Knowledge.
Clothes, dress.
A cover, an envelope.
A kind of posture practised by ascetics in abstract meditation.
