सामग्री पर जाएँ

वासन्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वासन्तः, पुं, (वसन्ते भवः । वसन्त + “सन्धि- वेलाद्यतुनक्षत्रेभ्योऽण् ।” ४ । ३ । १६ । इति अण् । उष्ट्रः । इति मेदिनी । ते, १५२ ॥ कोकिलः । इति राजनिर्घण्टः ॥ मलयवायुः । मुद्गः । इति त्रिकाण्डशेषः ॥ कृष्णमुद्गः । इति हेमचन्द्रः ॥ मदनवृक्षः । इति शब्दमाला ॥ आवहिते, त्रि । इति मेदिनी । ते, १५२ ॥ (वसन्तोप्ते च त्रि । इति सिद्धान्तकौमुदी । ४ । ३ । ४६ ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वासन्त¦ पुंस्त्री॰ वसन्तस्येदम् वसन्ते भवः वा अण्। वसन्तप्रिये

१ उष्ट्रे मेदि॰।

२ कोकिले च राजनि॰ स्त्रियां ङीष्। वसन्तभवे

३ मलयवायौ

४ मुद्गे त्रिका॰।

५ कृष्णमुद्गेहेमच॰।

६ मदनवृक्षे च शब्दर॰।

७ तत्कालभवे त्रि॰। [Page4887-a+ 38] स्त्रियां ङीप् सा च

८ यूथ्या

९ माधवीलतायांधरणिः।

१० पाटलायां विश्वः

११ नवमल्लिकायां भावप्र॰।
“वासन्ती शीतला लघ्वी तिक्ता दोषत्रयास्रजित्” भावप्र॰।

१० वसन्तकाले कर्त्तव्यदुर्गापूजायाम्। भविस्यपु॰
“मीनराशिस्थिते सूय्ये शुक्लपक्षे नराघिप!। सप्तमीं दशमीं यावत् पूजयेदम्बिकां सदा” भविष्यो-त्तरे
“चैत्रे मासि सिते पक्षे सप्तम्यादिदिनत्रये। पूज-येद्विधिवद् दुर्गां दशम्याञ्च विसजयेत्” कालकौमुद्यांज बालिः
“चेत्रे मासि सिते पक्षे सप्तम्यादिदिनत्रये। पूजयेद्विविधैर्द्रव्यैर्लवङ्गकुसुमैस्तथा। नानाविधैश्च बलिभि-र्मेषादैर्दोषवर्जितैः। विचित्राभरणैः पार्थ! पट्टवस्त्रा-दिभिस्तथा। एवं यः कुरुते पूजां वर्षे वर्षे विधानतः। ईप्सितान् लभते कामान् पुत्रपौत्रादिकान्नृप!” इति। अत्र निरुपपदमासशब्दसङ्केतात् भविष्यपुराणवचनेमीनराशिस्थित इति मीनस्थरव्यारब्धचान्द्रमासीय-तिथिपरम्। सौररव्यारब्धत्वे कदाचित् सप्तम्यादि-तिथित्रयालाभात् तद्वर्षे तत्कृत्यलोपः स्यात् नचेष्टापत्तिः भविष्यपुराणे सदापदोपादानात् जावालि-वचने वर्षे वर्षे इत्युपदानाच्च नित्यत्वम्। एतद्विवृतंकालविवेके। एवं जाबालिशेषवचनपरार्द्धे पुत्रादिरूपफलश्रवणात् काम्यत्वञ्च। ततश्च काम्यतया पूजने कृतेप्रसङ्गान्नित्यसिद्धि।
“सिताष्टम्यान्तु चैत्रस्य पुष्पेस्तत्कालसम्भवैः। अशोकैरपि यः कुर्य्यात् मन्त्रेणानेन पूज-नम्। न तस्य जायते शोको रोगो वाप्यथ दुर्गतिः” इति कालिकापुराणवचनात् केवलाष्टमीकल्प उक्तः। चैत्रमासमधिकृत्य
“नवम्यां पूजयेद्देवीं महिषासुर-मर्दिनीम्। कुङ्कुमागुरुकस्तूरीधूपान्नध्वजतपणैः। दम-नैर्मुरपत्रैश्च विजयाख्यपदं लभेत्” इत्यनेन केवल-नवमीकल्प उक्तः। व्यवस्था तु शारदीयपूजाप्रक-रणोक्ता ग्राह्या। विशेषस्तत्र बोधनप्रक्रिया नास्ति बाधि-ताया बोधनासम्भवात् इति प्राग्विवृतम्। होमादि-कञ्च पूर्ववज्ज्ञेयमिति दिक्” दुर्गोत्सवविवेकः। तत्काल-पूज्यत्वात् दुर्गापि वासन्तीत्युच्यते।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वासन्त¦ mfn. (-न्तः-न्ता-न्तं)
1. Placed, situated.
2. Vernal, relating to the season of spring, suitable to it, produced in it, &c.
3. Young, in the spring of life.
4. Diligent in the performance of religious cere- monies. m. (-न्तः)
1. A camel.
2. The Indian cuckoo.
3. Any young animal, or a young elephant.
4. A catamite.
5. The southern wind, zephyr.
6. A sort of kidney-bean, (Phaseolus mungo.)
7. The black kind of Moong or bean.
8. A plant, (Vangueria spinosa.) f. (-न्ती)
1. A large creeper, (Gærtnera racemosa.)
2. A species of jasmine, (Jasminum auriculatum.)
3. Long pepper.
4. Trumpet- flower.
5. A festival in honour of KA4MADE4VA, held in the month of Chaitra.
6. A species of the Sarkari4 metre. E. वस् to dwell, aff. झच्, and the vowel made long; or वसन्त spring, and अण् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वासन्त [vāsanta], a. (-न्ती f.)

Vernal, suitable to or produced in spring.

In the spring or prime of life, youthful.

Diligent, attentive (in the performance of duties).

न्तः A camel.

A young elephant.

Any young animal.

A cuckoo.

The south wind, the breeze blowing from the Malaya mountain; cf. मलयसमीर.

A kind of bean.

A dissolute man.

न्ती A kind of jasmine (with fragrant flowers); वसन्ते वासन्तीकुसुम- सुकुमारैरवयवैः Gīt.1.

Long pepper.

The trumpetflower.

N. of a festival held in honour of Cupid; cf. वसन्तोत्सव.

The spring creeper.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वासन्त mf( ई)n. (fr. वसन्त)relating to or produced in the spring season , vernal AV. etc.

वासन्त mf( ई)n. being in the spring of life , young W.

वासन्त mf( ई)n. = अवहित, or विहितL.

वासन्त m. (only L. )a camel

वासन्त m. the Indian cuckoo

वासन्त m. a young elephant , any young animal

वासन्त m. the southern or western wind(= मलया-निलSee. )

वासन्त m. Phaseolus Mungo or a black species of this kind of bean

वासन्त m. a purple species of Barleria Cristata

वासन्त m. Vangueria Spinosa

वासन्त m. a dissolute man

"https://sa.wiktionary.org/w/index.php?title=वासन्त&oldid=252121" इत्यस्माद् प्रतिप्राप्तम्