वासन्तिकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वासन्तिकः, त्रि, (वसन्तमधीते वेद वेति । वसन्त + “वसन्तादिभ्यष्ठक् ।” ४ । २ । ६३ । इति ठक् ।) विदूषकः यथा । वासन्तिकः केलिकिलो वैहा- सिको विदूषकः । इति हेमचन्द्रः ॥ (वसन्त- स्येदमिदि । “वसन्तात् च ।” ४ । ३ । २० । इति ठञ् । वसन्तसम्बन्धिनि, त्रि । यथा, भागवते । ५ । ९ । ५ । “सप्रणवशिरस्त्रिपदां सावित्रीं ग्रैष्मवासन्ति- कान् मासानधीयानमप्यसमवेतरूपं ग्राहया- मास ॥”)
