वासन्ती
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वासन्ती, स्त्री, (वसुन्तस्येयमिति । वसन्त + अण् । ङीष् ।) माधवी । यूथी । इति मेदिनी । ते, १५२ ॥ (यथा, रामायणे । ४ । १ । ७७ । “मालतीमल्लिकापद्मकरवीराश्च पुष्पिताः । केतक्यः सिन्धुवाराश्च वासन्त्यश्च सुपुष्पिताः ॥”) पाटला । इति विश्वः ॥ कामोत्सवः । तत्पर्य्यायः । चैत्रावली २ मधूत्सवः ३ सुवसन्तः ४ काम- महः ५ कर्द्दनी ६ । इति त्रिकाण्डशेषः ॥ गणिकारी । पुष्पलताविशेषः । तत्पर्य्यायः । प्रहसन्ती २ वसन्तजा ३ माधवी ४ महा- जातिः ५ शीतसहा ६ मधुबहुला ७ वसन्त- दूती ८ । अस्या गुणाः । शिशिरत्वम् । हृद्यत्वम् । सुरभित्वम् । श्रमहारित्वम् । धम्मिल्लामोदित्वम् । मन्दमदोन्मादनदायित्वञ्च । इति राजनिर्घण्टः ॥ नवमल्लिका । नेवारि इति हिन्दी भाषा ॥ यथा, -- “नेपाली कथिता तज्ज्ञैः सप्तला नवमालिका । वासन्ती शीतला लध्वी तिक्ता दोषत्रयास्र- जित् ॥” इति भावप्रकाशः ॥ * ॥ अथ वासन्तीदुर्गापूजाप्रमाणम् । तत्र भविष्य- पुराणम् । “मीनराशिस्थिते सूर्य्ये शुक्लपक्षे नराधिप । सप्तमीं दशमीं यावत् पूजयेदम्बिकां सदा ॥” भविष्योत्तरे । “चैत्रे मासि सिते पक्षे सप्तम्यादिदिनत्रये । पूजयेद्बिधिवद्दुर्गां दशम्याञ्च विसर्ज्जयेत् ॥” कालकौमुद्यां जावालिः । “चैत्रे मासि सिते पक्षे सप्तम्यादिदिनत्रये । पूजयेद्विविधैर्द्रव्यैर्लवङ्गकुसुमैस्तथा ॥ नानाविधैश्च वलिभिर्म्मेघाभैर्दोषवर्ज्जितैः । विचित्राभरणैः पार्थ पट्टवस्त्रादिभिस्तथा ॥ एवं यः कुरुते पूजां वर्षे वर्षे विधानतः । ईप्सितान् लभते कामान् पुत्त्रपौत्त्रादिकान्नृप ॥” अत्र भविष्योत्तरे निरुपपदमासशब्दसङ्केतात् भषिष्यपुराणवचने मीनराशिस्थित इति मीनस्थरव्यारब्धचान्द्रमासीयतिथिपरम् । सौर- रव्यारब्धत्वे कदाचित् सप्तम्यादितिथित्रयाला- भात् तद्वर्षे तत्कृत्यलोपः स्यात् । न चेष्टापत्तिः भषिष्यपुराणे सदापदोपादानात् जावालिवचने वर्षे वर्षे इत्युपादानाच्च नित्यत्वम् । एतद्विवृतं कालविवेके । एवं जावाली शेषवचनपरार्द्धे पुत्त्रादिरूपफलश्रवणात् काम्यत्वञ्च । ततश्च काम्यतया पूजने कृते प्रसङ्गात् नित्यत्वसिद्धिः । “सिताष्टम्यान्तु चैत्रस्य पुष्पैस्तत्कालसम्भवैः ॥ अशोकैरपि यः कुर्य्यात् मन्त्रेणानेन पूजनम् । न तस्य जायते शोको रोगो वाप्यथ दुर्गतिः ॥” इति कालिकापुराणवचनात् केवलाष्टमीकल्प उक्तः । चैत्रमासमधिकृत्य । “नमम्यां पूजयेद्देवीं महिषासुरमर्द्दिनीम् । कुङ्कुमागुरुकस्तूरीधूपान्नध्वजतर्पणैः । दमनैर्मुरपत्रैश्च विजयाख्यपदं लभेत् ॥” इत्यनेन केवलनवमीकल्प उक्तः । व्यवस्था तु शारदीयपूजाप्रकरणोक्ता ग्राह्या । विशेषस्त्वत्र बोधनप्रक्रिया नास्ति बोधिताया बोधनासम्भ- वात् । इति प्राक् विवृतम् । होमादिकञ्च पूर्ब्ब- वज्ज्ञेयमिति दिक् । इति दुर्गोत्सवविवेकः ॥ * ॥ अपि च । श्रीनारायण उवाच । “पुरा स्तुता सा गोलोके कृष्णेन परमात्मना । संपूज्य मधुमासे च प्रीतेन रासमण्डले ॥ मधुकैटभयोर्युद्धे द्वितीये विष्णुना पुरा । तत्रैव काले सा दुर्गा ब्रह्मणा प्राणसङ्कटे ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ६३ अध्यायः ॥ (चतुर्द्दशाक्षरवृत्तिविशेषः । इति छन्दो- मञ्जरी । अस्या लक्षणादिकं छन्दःशब्दे द्रष्ट- व्यम् ॥)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वासन्ती स्त्री।
कुन्दभेदः
समानार्थक:अतिमुक्त,पुण्ड्रक,वासन्ती,माधवी,लता
2।4।72।1।3
अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता। सुमना मालती जातिः सप्तला नवमालिका॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वासन्ती f. See. below.
वासन्ती f. (See. वासन्तabove ) N. of various plants (Gaertnera Racemosa , a kind of jasmine , Bignonia Suaveolens etc. ) L.
वासन्ती f. = नव-मालिकाBhpr.
वासन्ती f. a spring festival (held in the month चैत्रin honour of काम-देवor in some places of दुर्गा) L.
वासन्ती f. a kind of metre Col.
वासन्ती f. (in music) a partic. रागिणीSam2gi1t.
वासन्ती f. N. of a sylvan goddess Uttarar.
वासन्ती f. of a daughter of king भूमि-शुक्ल, Buddh.
