वासा
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
कल्पद्रुमः[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वासा, स्त्री, (वासयतीति । वस् + णिच् + अच् । टाप् ।) वासकः । इति शब्दरत्नावली ॥ (यथा, वैद्यके । “वासायां विद्यमानायामाशायां जीवितस्य च । रक्तपित्ती क्षयी कासी किमर्थमवसीदति ॥”)