वास्तूकम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वास्तूकम्, क्ली, (वसन्ति गुणा अत्रेति । वस + ऊलूकादयश्चेति साधुः ।) शाकविशेषः । वेतुया इति भाषा । तत्पर्य्यायः । वास्तू २ वास्तुकम् ३ वसुकम् ४ वस्तूकम् ५ हिलमोचिका ६ शाक- राजः ७ राजशाकः ८ चक्रवर्त्ती ९ । अस्य गुणाः । मधुरत्वम् । सुशीतलत्वम् । क्षारत्वम् । मादनत्वम् । त्रिदोषजित्त्वम् । रोचनत्वम् । ज्वरहरत्वम् । महार्शसां नाशनत्वम् । मल- मूत्रशुद्धिकारित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “वास्तू कं वास्तुकञ्च स्यात् क्षारपत्रञ्च शाक- राट् । तदेव तु बृहत्पत्रं रक्तं स्याद्गौडवास्तुकम् ॥ प्रायशो यवमध्ये स्यात् यावत् शाकमतः स्मृतम् । वास्तू कद्बितयं स्वादु क्षारं पाके कटूदितम् ॥ दीपनं पाचनं रुच्यं लघु शुक्रबलप्रदम् । सरं प्लीहास्रपित्तास्रकृमिदोषत्रयापहम् ॥” इति भावप्रकाशः ॥
