विकङ्कतः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विकङ्कतः, पुं, वदरीसदृशसूक्ष्मफलवृक्षः । व~इच इति भाषा । तत्पर्य्यायः । स्वादुकण्टकः २ स्रुवावृक्षः ३ ग्रन्थिलः ४ व्याघ्रपात् ५ । इत्य- मरः ॥ श्रुग्वारुः ६ मधुपर्णी ७ । इति रत्न- माला ॥ कण्टपादः ८ बहुफलः ९ गोपघण्टा १० स्रुवाद्रुमः ११ मृदुफलः १२ दन्तकाष्ठः १३ यज्ञीयब्रह्मपादपः १४ पिण्डारः १५ हिमकः १६ पूतः १७ किङ्किणी १८ वैकङ्कतः १९ वुति- ङ्करः २० कण्टिकारी २१ । इति शब्दरत्ना- वली ॥ किङ्किरी २२ स्रुग्दारु २३ । इति जटाधरः ॥ अस्य गुणाः । अम्लमधुरत्वम् । पाकेऽतिमधुरत्वम् । लघुत्वम् । दीपनत्वम् । कामलास्रप्लीहनाशित्वम् । पाचनत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “स एव यज्ञवृक्षश्च कण्टकी व्याघ्रपादपि । विकङ्कतफलं पक्वं मधुरं सर्व्वदोषजित् ॥” इति भावप्रकाशः ॥
