सामग्री पर जाएँ

विकटः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विकटः, पुं, (विकटति पूयरक्तादिकं वर्षतीति । वि + कट + पदाद्यच् ।) विस्फोटकः । इति शब्दरत्नावली ॥ साकुरुण्डवृक्षः । इति राज- निर्घण्टः ॥ (धृतराष्ट्रस्य पुत्त्रविशेषः । यथा, महाभारते । १ । ६७ । ९६ । “दुर्म्मदो दुष्प्रहर्षश्च विवित्सुर्विकटः समः ॥”)

विकटः, त्रि, (वि + “संप्रोदश्च कटच् ।” ५ । २ । २९ । इति कटच् ।) विशालः । (यथा, माघे । १० । ४२ । “उत्तरीयविनयात्त्रपमाणा रुन्धती किल तदीक्षणमार्गम् । आवरिष्ट विकटेन विवोढु- र्वक्षसैव कुचमण्डलमन्या ॥”) विकरालः । इति मेदिनी । टे, ॥ सुन्दरः । इति विश्वः ॥ दन्तुरः । इति धरणिः ॥ (यथा, मार्क- ण्डेये । ४३ । २० । “करालैर्विकटैः कृष्णैः पुरुषैरुद्यतायुधैः । पाषाणैस्ताडितः स्वप्ने सद्यो मृत्युं लभेन्नरः ॥”) विकृतः । इति त्रिकाण्डशेषः ॥

"https://sa.wiktionary.org/w/index.php?title=विकटः&oldid=165633" इत्यस्माद् प्रतिप्राप्तम्