सामग्री पर जाएँ

विकर्षणम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विकर्षणम्, क्ली, (वि + कृष + ल्युट् ।) आकर्षणम् । विपूर्ब्बकृषधातोरनट्प्रत्ययेन निष्पन्नम् ॥ (यथा, किराते । ३ । ५७ । “अविलङ्घ्यविकर्षणं परैः प्रथितज्यारवकर्म्मकार्म्मुकम् ॥” विभागः । यथा, भागवते । ३ । ७ । ३० । “वर्णाश्रमविभागांश्च रूपशीलस्वभावतः । ऋषीणां जन्मकर्म्माणि वेदस्य च विकर्षणम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=विकर्षणम्&oldid=165657" इत्यस्माद् प्रतिप्राप्तम्