सामग्री पर जाएँ

विकल्पसम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विकल्पसम¦ पु॰ गौ॰ उक्ते जात्युत्तरभेदे। स च कस्यचित् धर्मस्य क्वचिद्व्यभिचारदर्शनेन धर्मत्वाविशेषात्प्रकृतहेतोः प्रकृतसाध्यं प्रति व्यभिचारापादनरूपः यथाशब्दानित्यः कृतकत्वादित्यत्र कृतकत्वस्य गुरुत्वव्यभिचार-दर्शनात् गुरुत्वस्यानित्यत्वव्यभिचारदर्शनात् अनित्यत्वस्य-मूर्त्तत्वव्यभिचारदर्शनात् धर्मत्वाविशेषात् कृतकत्वमप्य-नित्यत्वं व्यभिचरेदिति” वृत्तिः। वा॰ भाष्ये तु
“साधन-धर्मयुक्ते दृष्टान्ते धर्मान्तरविकल्पात् साध्यधर्मविकल्पंप्रसजतो विकल्पसमः। यथा क्रियाहेतुगुणयुक्तं कि-ञ्चिद् गुरु यथा लोष्टः किञ्चिद् लघु यथा वायुः। एवंकियाहेतुगुणयुक्तं किञ्चित् क्रियावत् स्यात् यथा लोष्टः। किञ्चिदक्रियं यथात्मा। विशेषो वा वाच्यः” इत्युक्तम्।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विकल्पसम/ वि-कल्प---सम m. a partic. sophistical objection Sarvad.

"https://sa.wiktionary.org/w/index.php?title=विकल्पसम&oldid=253684" इत्यस्माद् प्रतिप्राप्तम्