सामग्री पर जाएँ

विकारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विकारः, पुं, (वि + कृ + घञ् ।) प्रकृतेरन्यथाभावः । तत्पर्य्यायः । परिणामः २ विकृतिः ३ विक्रिया ४ । इत्यमरः ॥ विकृत्या ५ । इति भरतः ॥ केचित्तु पूर्ब्बद्वयं प्रकृतिध्वंसजन्यविकारे यथा काष्ठस्य विकारो भस्म । मृत्पिण्डस्य घट इति । परद्वयं विकारमात्रे यथा मुखस्य विकृतिः क्रोधरक्तता । काष्ठस्य भस्म च । इति भरतः ॥ (यथा, कुमारे । ७ । ९५ । “अपि शयनसखिभ्यो दत्तवाचं कथञ्चित् प्रमथमुखविकारैर्हासयामास गूढम् ॥” प्रकृतिविकृतिः । यथा, हरिवंशे । २४९ । ३५ । “शब्दः स्पर्शश्च रूपञ्च रसो गन्धस्तथैव च । प्रकृतिश्च विकारश्च यच्चान्यत् कारणं महत् ॥” अस्य विशेषविबरणं विकृतिशब्दे द्रष्टव्यम् ॥) रोगः । इति मेदिनी । रे, २१८ ॥ (यथा, -- “विकारो धातुवैषम्यं साम्यं प्रकृतिरुच्यते । सुखसंज्ञकमारोग्यं विकारो दुःखमेव च ॥” इति चरके सूत्रस्थाने नवमेऽध्याये ॥ मत्स्यः । तत्पर्य्यायो यथा, -- “मत्स्यो मीनो विकारश्च झषो वैशारिणो- ऽण्डजः । शकुलो पृथुरोमा च स सुदर्शन इत्यपि ॥ रोहिताद्यास्तु ये जीवास्ते मत्स्याः परि- कीर्त्तिताः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विकारः [vikārḥ], 1 Change of form or nature, transformation, deviation from the natural state; cf. विकृति.

A change, alteration, a modification; प्रमथमुखविकारै- र्हासयामास गूढम् Ku.7.95; नेत्रवक्त्रविकारैश्च लक्ष्यते$न्तर्गतं मनः Pt.1.44; Ś.7.

Sickness, disease, malady; विकारं खलु परमार्थतो$ज्ञात्वा$नारम्भः प्रतीकारस्य Ś.4; Ku.2.48.

Change of mind or purpose; मूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्य- मत्तेषु Ś.5.18.

A feeling, an emotion; विकारश्चैतन्यं भ्रम- यति च संमीलयति च U.1.35;3.25,36; Māl.1.3.

Agitation, excitement, perturbation; कुतः परस्मिन् पुरुषे विकारः Ki.17.23.

Contortion, contraction (as of the features of the face); प्रमथमुखविकारैर्हासयामास गूढम् Ku.7.95.

(In Sā&ndot. phil.) That which is evolved from a previous source or Prakṛiti.

A wound.-Comp. -हेतुः a temptation, seduction, cause of perturbation; विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः Ku.1.59.

"https://sa.wiktionary.org/w/index.php?title=विकारः&oldid=253806" इत्यस्माद् प्रतिप्राप्तम्