सामग्री पर जाएँ

विकृतम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विकृतम्, त्रि, (वि + कृ + क्तः ।) वीभत्सम् । रोगि- तम् । असंस्कृतम् । इति मेदिनी । ते, १५८ ॥ (अङ्गविहीनम् । यथा, मनुः । ९ । २४७ । “बालाश्च न प्रमीयन्ते विकृतं न च जायते ॥” अप्रकृतिस्थः । यथा, महाभारते । ३ । १११ । १८ । “अथर्य्यशृङ्गं विकृतं समीक्ष्य पुनः पुनः पीड्य च कायमस्य । अवेक्ष्यमाणा शनकैर्जगाम कृत्वाग्निहोत्रस्य तदापदेशम् ॥” * ॥ मायावी । यथा, रघुः । १२ । ३९ । “लक्ष्मणः प्रथमं श्रुत्वा कोकिलामञ्जुवादिनीम् । शिवाघोरस्वनां पश्चात् बुबुधे विकृतेति ताम् ॥”)

विकृतम्, क्ली, विकारः । तस्य लक्षणम् । यथा, -- “ह्रीमानेर्षादिभिर्यत्र नोच्यते स्वं विवक्षितम् । व्यज्यते चेष्टयैवेदं विकृतं तद्विदुर्बुधाः ॥” इत्युज्ज्वलनीलमणिः ॥ प्रभवादिषष्टिसंवत्सरान्तर्गतचतुर्व्विंशवर्षम् । यथा, भविष्यपुराणे । भैरव उवाच । “सर्व्वाः प्रजाः प्रपीड्यन्ते व्याधिः शोकश्च जायते । शिरोवक्षोऽक्षिरोगाश्च पापाद्धि विकृते जनाः ॥” इति ज्योतिस्तत्त्वम् ॥ (नायिकालङ्कारविशेषः । यथा, साहित्य- दर्पणे । ३ । १४६ । “वक्तव्यकालेऽप्यवचो व्रीडया विकृतं मतम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=विकृतम्&oldid=165717" इत्यस्माद् प्रतिप्राप्तम्