सामग्री पर जाएँ

विकृतिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विकृतिः, स्त्री, (वि + कृ + क्तिन् ।) विकारः । इत्यमरः ॥ (यथा, कुमारे । ७ । ३४ । “यथाप्रदेशं भुजगेश्वराणां करिष्यतामाभरणान्तरत्वम् । शरीरमात्रं विकृतिं प्रपेदे तथैव तस्थुः फणरत्नशोभाः ॥”) रोगः । डिम्बः । मद्यादिः । इति हेमचन्द्रः ॥ (सांख्योक्तविकृतिः । यथा, सांख्यकारिका- याम् । ३ । “मूलप्रकृतिरविकृति- र्म्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥” संक्षेपतः शास्त्रस्य चतस्रो विधाः । कश्चिदर्थः प्रकृतिरेव कश्चिदर्थो विकृतिरेव कश्चित् प्रकृति- विकृतिरेव कश्चिदनुभयरूपः । तत्र का प्रकृति- रेवेत्यत उक्तं मूलप्रकृतिरविकृतिरिति । प्रक- रोतीति प्रकृतिः प्रधानं सत्वरजस्तमसां साम्या- वस्था सा प्रकृतिः प्रकृतिरेव इत्यर्थः । कस्मादि- त्यत उक्तम् मूलेति मूलञ्चासौ प्रकृतिश्चेति मूलप्रकृतिः विश्वस्य कार्य्यसंघातस्य सा मूलं न त्वस्या मूलान्तरमस्तीति भावः । कतमाः पुनः प्रकृतिविकृतयः कियत्यश्च इत्यत उक्तं मह- दाद्याः प्रकृतिविकृतयः सप्तेति । प्रकृतयश्च ता विकृतयश्च ता इति । तथाहि महत्त्वत्त्वमह- ङ्कारस्य प्रकृतिर्विकृतिश्च मूलप्रकृतेः । एव- महङ्कारतत्त्वं तन्मात्राणामिन्द्रियाणाञ्च प्रकृति- र्व्विकृतिश्च महतः । एवं पञ्चतन्मात्राणि भूतानामाकाशादीनां प्रकृतयो विकृतयश्चाह- ङ्कारस्य । अथ का विकृतिरेव कियती च इत्यत उक्तं षोडशकस्तु विकार इति षोडशसंख्या- परिमितो गणः षोडशकः । तु शब्दोऽवधारणे भिन्नक्रमश्च । पञ्चमहाभूतान्येकादशेन्द्रियाणि चेति षोडशको गणो विकार एव न प्रकृति- रिति । यद्यपि पृथिव्यादीनामपि गोघटवृक्षादयो विकाराः एवं तद्विकारभेदानां दध्यङ्कुरादय- स्तथापि गवादयो बीजादयो वा न पृथिव्यादिभ्य स्तत्त्वान्तरम् । तत्त्वान्तरोपादानत्वञ्च प्रकृतित्व- मिहाभिप्रेतमिति न दोषः सर्व्वेषां गोघटा- दीनां स्थूलता इन्द्रियग्राह्यता च समेति न तत्त्वान्तरम् । अनुभयरूपमुक्तं तदाह न प्रकृति- र्न विकृतिः पुरुष इति तत्त्वकौमुदी ॥ ३ ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विकृतिः [vikṛtiḥ], f.

Change (as of purpose, mind, form &c.); चित्तविकृतिः; अङ्गुलीयकं सुवर्णस्य विकृतिः &c.; प्रकृतिविकृति- भिरनुसवनम् Bhāg.5.7.5.

An unnatural or accidental circumstance, an accident; मरणं प्रकृतिः शरीरिणां विकृति- र्जीवितमुच्यते बुधैः R.8.87.

Sickness.

Excitement, perturbation, anger, rage; सावलेपमुपलिप्सिते परैरभ्युपैति विकृतिं रजस्यपि रजस्यपि Ki.13.56; U.5.29; Śi.15.11,4.

Emotion; सत्त्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः Ś.2.5.

A sudden seizure or affection.

Fermented liquor; see विकार amd विक्रिया also.

Hostility.

A phantom, spectre.

Abortion.

(In gram.) A derivative.

"https://sa.wiktionary.org/w/index.php?title=विकृतिः&oldid=254174" इत्यस्माद् प्रतिप्राप्तम्