विकोषः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विकोषः, त्रि, (विगतः कोषो यस्य ।) कोष- रहितः । निष्कोषः । इति पुराणम् ॥ (यथा, महाभारते । ३ । ६२ । १८ । “परिधावन्नथ नल इतश्चेतश्च भारत । आससाद सभोद्देशे विकोषं खड्गमुत्तमम् ॥” आच्छादनरहितः । यथा, मनोः । ११ । ४९ । श्लोकटीकायां कुल्लूकः । “गुरुभार्य्यागामी विकोषमेहनत्वमिति ॥”)
