विक्रमी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रमी, [न्] पुं, (विक्रमोऽस्त्यस्येति । विक्रम + इनिः ।) सिंहः । इति राजनिर्घण्टः ॥ विष्णुः । यथा, -- “ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।” इति महाभारते अनुशासनपर्व्वणि तस्य सहस्र- नामस्तोत्रे १४९ अध्याये २२ श्लोकः ॥ अति- शक्तिविशिष्टे, त्रि ॥ (यथा, महाभारते । १ । १२८ । २८ । “प्राणवान् विक्रमी चैव शौर्य्येण महता- न्वितः । स्पर्द्धते चापि सहितानस्मानेको वृकोदरः ॥”)

"https://sa.wiktionary.org/w/index.php?title=विक्रमी&oldid=165738" इत्यस्माद् प्रतिप्राप्तम्