विक्रयिकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विक्रयिकः, पुं, (विक्रयेण जीवतीति । विक्रय + “वस्नक्रयविक्रयात् ठन् ।” ४ । ४ । १३ । इति ठन् । यद्वा, विक्रीणातीति । वि + क्री + “क्रिय इकन् ।” उणा० २ । ४४ । इति इकन् ।) विक्रेता । इत्यमरः ॥ (यथा, महाभारते । १२ । ३६ । ३० । “दीक्षितस्य कदर्य्यस्य क्रतुविक्रयिकस्य च । तक्ष्णश्चर्म्मावकर्त्तुश्च पुंश्चल्या रजकस्य च । चिकित्सकस्य यच्चान्नमभोज्यं रक्षिणस्तथा ॥”)
