सामग्री पर जाएँ

विगर्हितः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विगर्हितः, त्रि, (विशेषेण गर्हितः ।) निन्दितः । (यथा, नैषधे । १ । १३१ । “न केवलं प्राणिवधो वधो मम त्वदीक्षणाद्विश्वसितान्तरात्मनः । विगर्हितं धर्म्मधनैर्निवर्हणं विशिष्य विश्वासजुषां द्विषामपि ॥”) निषिद्धः । इति विपूर्ब्बगर्हधातोः क्तप्रत्ययेन निष्पन्नः ॥

"https://sa.wiktionary.org/w/index.php?title=विगर्हितः&oldid=165815" इत्यस्माद् प्रतिप्राप्तम्